________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
१०५:
मपि सामानाधिकरण्येन वैशिष्ट्यभानाद् विषयताभेदः, यदि च तत्र प्रकारतयोनिरूपितत्व विशेषान्नातिरेकस्तदा विशिष्टवैशिष्ट्यस्थलेऽप्येकप्रकारतावच्छिन्नापरप्रकारतयोपपत्तावतिरेके किं मानम् ? 'विशेष्ये विशेषणम्' इति स्थले हि रक्तत्वप्रकारतानिरूपिता दण्डत्वावच्छिन्नप्रकारता, विशिष्टवैशिष्ट्यस्थले च रक्तत्वप्रकारतावच्छिन्ना दण्डत्वावछिन्नप्रकारतेत्येवं विशेषसम्भवात् , स्वीक्रियतां वा तत्रावच्छेदकत्वा-- ख्येष्वेव प्रकारता, प्रकारताद्वयघटितरूपेण च यथा हेतुतावश्यकत्वं तथा प्रागुक्तमेव यथा सन्निवेशधौठयेणेति न रक्तत्व-दण्डत्वोभयावच्छिन्नप्रकारतयैव रक्तदण्डस्यैव विशिष्टवैशिष्ट्यविषयता, अन्यथा 'रक्तदण्डद्रव्यवान्' इत्यतः 'रक्तदण्डवान्' इत्यस्य वैलक्षण्याद् रक्तत्व-दण्डत्वनिष्ठद्वित्वावच्छिन्न. परस्परं सामानाधिकरण्यसम्बन्धेन वैशिष्टयभानमभ्युपेयमित्यत आह- यदि चेति । तत्र 'एकत्र द्वयम्' इति ज्ञाने । निरूपित्तस्वविशेषात् अन्यज्ञानीयप्रकारतातो य एकविशेष्यतानिरूपितत्वलक्षणो विशेषस्तस्मात् ! नातिरेकः परस्परं सामानाधिकरण्येन वैशिष्टयभाननिबन्धन ज्ञानान्तरीयप्रकारतातो न भेदः, 'रक्तदाडवान् पुरुषः' इति विशिष्टवैशिष्ट्यबोधेऽपि 'पुरुषे दण्डस्तत्र रकत्वम्' इत्येवं रीत्या जायमान रक्तदण्डवान् पुरुषः' इति ज्ञानीयप्रकारतातः प्रकारताया न भेदः किन्तूभयत्र रक्तत्वे दण्डे च प्रकारता समैव । विशिष्टवैशिष्टयबुद्धिप्रकारतयोरवच्छेद्यावच्छेदकभावो 'विशेष्ये विशेषणम्' इति ज्ञानप्रकारतयोनिरूप्यनिरूपकभाव इत्येवं तयोविशेषसम्भवादित्याह--तदेति । किं मानमिति-न किश्चिन्मानमित्यर्थः । तादृशबोधद्वय
लक्षण्यस्यान्यथाऽप्युपपत्त्या न तदन्यथानुपपत्तिस्तत्र मानमित्याह- 'विशेष्ये विशेषणम्' इति स्थले हीति- यद्यपि ज्ञानान्तरे प्रकारत्वविशेष्यत्वयोरेव निरूप्यनिरूपकभाव इति प्रकारतात्वावच्छिन्ननिरूपकतानिरूपित निरूप्यतावच्छेदकं विशेष्य. तात्वमेव न प्रकारतात्वमिति रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतेव भवति न तु दण्डत्वावच्छिन्नप्रकारतेति दण्डत्वावच्छिन्नविशेष्यताऽतिरिक्ता तत्राभ्युपगम्यैव, तथा च रक्तत्वनिष्टप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतावच्छेचैव तत्र दण्डनिष्टप्रकारता न तु रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्न प्रकारतारूपा सा, तथापि यथै कत्र द्वयमिति स्थले प्रकारत्वयोर्निरूपितत्वविशेषमुपास्य सामानाधिकरण्यसम्बन्धेन परस्परवैशिष्टयभानप्रयुक्तस्य सम्भवतोऽपि विषयतातिरेकस्यानभ्युपगमस्तथैवान्यत्रादृष्टस्यापि प्रकारतात्वाभ्यां निरूप्यनिरूपकभावस्य विशिष्टवशिष्टयबोधतो विशेषाधिगतये 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारत्वयोरभ्युपगमेन तत्र दण्डे विशेष्यतालक्षणविषयताभेदानभ्युपगम इत्याशयः । 'विशेष्ये विशेषणम्' इति बोधतो विषयतातिरेकाभ्युपगममन्तरेणापि विशेषमुपदर्शयति-विशिष्टयौशिष्टयस्थले चेतियद्यप्यत्रापि अनन्तराभासमानसमानाधिकरणकज्ञानीयविषयत्वयोरेगावच्छेद्यावच्छेदकभावो ज्ञानान्तरीयविषयतास्थले दृष्ट इति 'रक्तदण्ड बान्' इति विशिष्टवैशिष्टयज्ञाने या रक्तत्वनिष्टप्रकारता या च दण्डत्वावच्छिन्नदण्डनिष्ठप्रकारता तयोरे कज्ञानीययोरपि सामानाधिकरण्याभावान्नोक्तनियमानुसारेणावच्छेद्यावच्छेदकभाव सम्भवः, तथापि विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेषाधिगत्यर्थमन्यत्रादृष्टस्याप्येतस्य कल्पनम् , एतावतवान्यबुद्धितो विशिष्टवैशिष्ट यबुद्धभेदस्य सम्भवान्नातिरिक्तविषयताकल्पनमित्याशयः । यदि च व्यधिकरणविषयतात्मनो रक्तत्वनिष्ट प्रकारत्व-दण्डत्वावच्छिन्नप्रकारत्वयोनविच्छेदकभावस्तदा विशिष्टवैशिष्टयबोधे या रक्तत्वनिष्ठप्रकारता सा रक्तत्वनिष्ठावच्छेदकतैव, तन्निरूपितत्वादेव दण्डत्वाववच्छिन्नप्रकारतायाः 'विशेष्ये विशेषणम्' इति ज्ञानीयप्रकारतातो विशेष इत्याह-स्वीक्रियतां वेति । तत्र विशिष्टवैशिष्ट्यबोधे । 'अवच्छ. दकत्वाख्येष्वेव' इति स्थाने 'अवच्छेदकताख्यव' इति पाठो युक्तः । 'विशेष्ये विशेषणम्' इति ज्ञानीयविषयताया रक्तत्वनिष्टप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारतारूपाया अनुभवसिद्धत्वं कारणतावच्छेदकत्वं च पूर्वमुपपादितमेवेति स्मारयति-प्रकारताद्वयधरितरूपेणेति । रक्तत्वनिष्टप्रकारत्वावच्छिन्नदण्डत्वावच्छिन्नप्रकारताकत्वेन विशिष्टबोधस्य बोधान्तरतो विशेषे तद्रूपेणैव तस्य स्वकार्य प्रति कारणत्वादिकं परिभावनीयम् , प्रकारान्तराश्रयणेन तत्र विशिष्टनिष्ठप्रकारतानिर्वचनं तु न सम्भवदुक्तिकमित्याह-न रक्तत्वेति-प्रथमवकारेण रक्तत्व-दण्डत्वद्रव्यत्वादित्रितयधविच्छिन्नप्रकारतया रक्तत्वनिष्ठप्रकारतानिरूपितदण्डत्वावच्छिन्न प्रकारतया विशिष्टवैशिष्ट्यबुद्धिविषयत्वस्य व्यवच्छेदः, द्वितीयवकारेण रक-दण्ड द्रव्यादेः प्रकृतदण्डवानिति विशिष्ट वैशिष्ट्यबुद्धिविषयत्वव्यवच्छेदः, नयभेदेन बहूनां विशिष्टवैशिष्ट्यबुद्धिप्रकाराणो सम्भव रक्तत्वनिष्टप्रकारत्वावच्छिन्नदण्डवावच्छिन्नप्रकारतयाऽपि रक्तदण्डस्येव रक्तदण्डद्रव्यत्वादेरपि विशिष्ट वैशिष्ट धबुद्धिविषयता सम्भवत्येवेति तस्यवच्छेदनं न न्याय्यमिति निषेधहेतुरत्रावसेयः । अन्यथा निरुक्तैकान्तस्यैवाश्रयणे । 'रक्तदण्डवान' इत्यस्य चैलक्षण्याद' अस्य
१४