________________
(२३१) पट्टपत्रवर्तनानिर्णयो नामैत्रिंशदुत्तरद्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
अतः परं प्रवक्ष्यामि चित्रादि पट्टसाधनम् । शाकवृक्षोद्भवाकार्या चित्राभ्यासार्थपट्टिका ॥ १ ॥ अत्यग्निमालिता या च इष्टिका आयसाकृतिः । रन्ध्रकीर्णकुलाया च गृहीतव्या लूणीकृता ॥ २ ॥ अतिसूक्ष्मा च कर्तव्या दीपशिखाकजलोपमा । गोधूमः खलचूर्ण तु तक्रमध्ये तु प्रक्षिपेत् ॥ ३॥ तदनन्तरोद्भवं च सूक्ष्मवस्त्रेषु गालयेत् । भाण्डे तु तादृशं क्षिप्तं मृद्वाग्नना शनैः शनैः ॥४॥ तथा दृढरसाकारं वज्रलेपसमं भवेत् । तेनाथ मईयेत्यभिष्टिका सूक्ष्मचूर्णतः ॥५॥ पक्षद्वये सुप्रलेपो हन्तयेन प्ररोहते । पट्टबन्धनमेवं तु कर्तव्यं चित्रहेतवे ॥६॥
(पत्रवर्तना निर्णयो लुप्तः स्यात् )
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
पट्टपत्रवर्तनानिर्णयाविकारो नामैकत्रिंशदुत्तरद्विशततम सूत्रम् ||