________________
५५७
अपराजितपृच्छा आदिमूर्तियथा कृष्णस्ततो हीना समस्तकाः। .. विभक्तयनुक्रमौ तासां कथयामि विशेषतः ॥ १७ ॥ पादेन वा त्रिभागेन न्यूनः स्याद्वासुदेवकः । आदिमूर्त्यर्धभागेन वाराहस्य तथोदयः ॥ १८॥ देवमानमिति ख्यातं भृत्यमानं च कथ्यते। कदिनामिस्तनन्धूना नूनं भृत्यादि-देवताः ॥ १९॥ वैकुण्ठो विश्वरूपश्चाऽनन्तस्त्रैलोक्यमोहनः । एते स्कन्धसमानाश्च शेषा न्यूनास्ततोऽपि च ॥२०॥ प्रासादे देवतामध्ये मण्डपे गर्भमध्यतः । उदुम्बरोच्छ्यसमा वेदिका जलपीठिका ॥ २१ ॥ घेदार वैदिकाकार जलपट्टस्य निर्गमम् । घासुदेवादिक्रमेण स्थापयेचतुरो हरीन् ॥ २२॥ शुक्लाम्बरधरो देवः शुक्लमाल्यानुलेपनः । शुक्लध्वजपताकश्च शुक्लयज्ञोपवीतिकः ॥ २३ ॥ चतुःसहनगोपीयुक् कार्यः परिकरस्तथा। रुक्मिण्यादिगोपिकायुक् प्राङ्मुखो वासुदेवकः ॥२४॥ रक्ताम्बरधरो देवो रक्तमाल्यानुलेपनः । रक्तध्वजपताकश्च रक्तयज्ञोपवीतिकः ॥ २५ ॥ रोहिण्यादिगोपिकायुगनन्तो दक्षिणामुखः। चतुःसहरगोपिकायुक् कार्यः परिकरस्तथा ॥ २६ ॥ पीताम्बरधरो देवः पीतमाल्यानुलेपनः । पीतध्वजपताकश्च पीतयज्ञोपवीतकः ॥ २७ ॥ रस्यादिगोपिकायुक्तः प्रद्युम्नः पश्चिमामुखः। चतुःसहयगोपिकायुक् कार्यः परिकरस्तथा ॥ २८ ॥ नीलाम्बरधरो देवश्चातसीपुष्पसन्निभः । नीलध्वजपताकश्च नीलयशोपवीतकः ।। २९ ॥ उषादिगोपिकायुक्तोऽनिरुद्धश्चोत्तरामुखः। चतुःसहस्रगोपिकायुक् कार्यः परिकरस्तथा ॥ ३०॥ शेषाः पन्तौ प्रकर्तव्याः केशवादिकमूर्तयः । पक्षभन्ने मण्डपस्य मध्योत्तमगवाक्षके ॥ ३१ ॥ बैकुण्ठो दक्षिणे स्थाप्यो वामतो विश्वरूपकः। मूलगर्भस्य मध्ये स्वनन्तत्रैलोक्यमोहनौ ॥ ३२॥ मण्डपाने त्रिकं प्रोक्तं कर्तव्यं सर्वकामदम् । एकद्वित्रिक्षणा: कार्याः परितो मत्त वारणाः ॥ ३३ ॥ पाराहो मध्यदेशेतु पीठोदुम्बरतः समः। मेष (शेषं) कूर्म समायुक्तं लक्ष्मी वै घामपार्श्वतः ॥ ३४ ॥