________________
(२१८) द्वारवती नामाष्टादशोत्तर द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
द्वारकायाः प्रवक्ष्यामि छन्दान्पञ्च प्रकीर्तितान् । 'अनुक्रमादथैकैकं कथयिष्यामि च ध्रुवम् ॥ १ ॥ पद्मिनी विजयाख्या च श्रीतुङ्गा चैव शान्तिका । महोत्सवा च विज्ञेयाः पञ्चैव द्वारिका मताः ॥ २ ॥ पद्मिन्याख्या कृतयुगे त्रेतायां विजया तथा । श्रीतुङ्गाख्या द्वापरे च शान्तिका च कलौयुगे ॥ ३॥ चतुर्युगे चतुर्वर्णे प्रशस्ता च महोत्सवा । तलच्छन्दाश्चतस्रः स्युः पञ्चमी स्यान्महोत्सवा ? ॥ ४ ॥ सङ्कर्षणस्य विजया वासुदेवस्य पद्मिनी । प्रद्युम्नस्य च श्रीतुङ्गाऽनिरुद्धस्याऽथ शान्तिका ॥ ५ ॥ महोत्सवा च क्रियते सर्वमूर्तिषु कामदा | धर्मार्थकाममोक्षाणां प्राप्तिहेतव ईरिताः ॥ ६ ॥ चतुरश्रकृते क्षेत्रे दशधा प्रविभाजिते । द्विभागा भित्तिरित्युक्ता गर्भः षडूभाग ईरितः ॥ ७ ॥ मध्यक्षेत्रत्रिभागस्तु ह्याचीपीठः सुशोभनः । चतुरस्त्रे समक्षेत्रेऽम्बुपट्टे वेदिका कृति ॥ ८ ॥ प्रतिष्ठाप्यो वासुदेव: पूर्वदिङ्मुख एव च ।
कर्षणः स्यात्सुख दो दक्षिणाभिमुखस्थितः ॥ ९ ॥ प्रद्युम्नः सुखदो देवस्तथा वरुणदिङ्मुखः । कौबेरीमुखसंस्था ह्यनिरुद्धस्तथोच्यते ॥ १० ॥ एक पीठसमारूढाश्चत्वारो हरयः स्थिताः । अपरप्रागग्निनिर्ऋत्याश्रिताः कृष्ण उच्यते ? ॥ ११ ॥ धर्मार्थकाममोक्षाश्च लभ्यन्ते कृष्णदेवतः । कृष्णदेवस्याऽऽदि मूर्तिः द्वारकादि जगत्पतेः ॥ १२ ॥ यथा प्रजा विना राज्ञा पुंभि होनास्तु योषितः । द्वारिका कृष्णहीना तु विना कृष्णं न शोभते ॥ १३ ॥ एकया कृष्णमूर्त्या च लब्धपुण्या च द्वारिका | समस्त मूर्तियुक्ताऽपि विना कृष्णं न पुण्यभाक् ॥ १४ ॥ स्वप्ने वा मनसा वाऽपि द्वारिकां यस्तु कारयेत् । लभेत् विष्णुलोकं स यावदाभूतसंप्लवम् ॥ १५ ॥ वर्द्धमानापरं शिखरं ? कर्णानुगे कुछाकृति ? | प्राग्ग्रीवो भय कुक्ष्योश्च पक्षिराजाधिप गृहे ॥ १६ ॥ इत्यादि मूर्तिः ॥