________________
५५४
अपराजित पृच्छा
गदाच माधवे वासुदेवके । लालङ्कारं भवेद्रूपं श्वेतवर्णं तथैव च ॥
१७ ॥
इति वासुदेवत्रयम् ॥
चक्रं गदा पद्मशख गोविन्दे गोपवर्द्धने । गदापद्मे शखचक्रे विष्णो स्युर्जगतीपतौ ॥ १८ ॥ चक्रख पद्मगदे तथा स्युर्मधुसूदने । साकर्षणास्त्रयो भेदा विष्णुरूपादिकोद्भवाः ॥ १९ ॥ इति सङ्कर्षणादिश्रयम् ॥
पद्मं गदा चक्रशङ्खौ रूपे त्रैविक्रमे तथा । शङ्खचक्रगदापद्मं वामने बलिबन्धने ॥ २० ॥ पद्मं चक्रं गदा शखं श्रीधरे श्रीनिकेतने । प्रद्युम्नस्य त्रयो भेदा विष्णुशस्त्रसमुद्भवाः ॥ २१ इति प्रधुम्नादित्रयम् गदा चक्रं पद्मशङ्खौ द्दषकेशे उदाहृताः । शङ्खपद्मे चक्रगदे पद्मनाभे ब्रह्मोद्भवे ! ॥ २२ ॥ पद्मशखगदाच दामोदर उदाहृतम् । अनिरुद्धस्य भेदाश्च पुराणैश्च प्रबोधिताः ॥ २३ ॥ इत्यनिरुद्धादिश्यम् ॥
अथाम्याः सम्प्रवक्ष्यामि मूर्ती वै वासुदेवजाः । सङ्कर्षणश्च प्रतनोऽनिरुद्धश्च यथाक्रमम् ॥ २४ ॥ अधोक्षजः कृष्णकार्तिकेयश्च पुरुषोत्तमः । तार्क्ष्यध्वजाच्युतोपेन्द्रा जयन्तो नारसिंहकः ॥ २५ ॥ जनार्दनो गोवर्धनो हरिः कृष्णस्तथैव च । पद्मं गदा शङ्खचक्रे तथैवाऽधोक्षजे सदा ॥ २६ ॥ पद्मं कृष्ण कार्तिकेये शकिखेटक कम्बवः | चक्रपद्मे शङ्खगदे तथा च पुरुषोत्तमे ॥ २७ ॥ पशखो ध्वजा गदा चिह्नं वक्रं तार्क्ष्यस्थे गरुडध्वजे । गदा पद्मं चक्रशखावच्युते विष्णुरूपके ॥ ६८ ॥ उपेन्द्रमूर्ती शङ्खोऽथ गदा वक्रं च पद्मकम् | अक्षचक्रदण्डपद्मं वादित्रैः परिवेष्टिते ।। २९ ।। जयन्त नामविख्याते रिपु सैन्य विमर्दने । चक्रपद्म गदाशखा नारसिंहे तथैव च ॥ ३०६ ॥ पद्मं चक्रं शखगदे तथैव च जनार्दने । गोवर्धने चाऽक्षच शखाब्जं गोपवल्लभे ॥ ३१ ॥