________________
(२१७) विष्णुमूर्तिलक्षणं सप्तदशोत्तर द्विशततमं सूत्रम् ॥
N
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि विष्णुमूर्तश्च लक्षणम् । मूर्तयो वासुदेवाद्या युगादिवर्णभेदतः ॥ १॥ कृते युगे वासुदेवस्त्रेतायां कृष्ण एव च । प्रद्युम्नो द्वापरे चैवानिरुद्धश्च कलौ युगे ॥२॥ वासुदेवो भवेद्विने क्षत्रे संकर्षणः शुमः। प्रद्युम्नश्च तथा वैश्ये शूद्रे चैवानिरुद्धकः ॥ ३॥ . शुद्धस्फटिकसंकाश छत्राकारं तु मस्तके। . दक्षिणे च करे शङ्खस्तस्याधस्ताद् गदा शुभा ॥४॥ वामे चोचे तथा चक्रमधः पद्मं सुशोभनम् । स्याद्वासुदेवमूर्तिः स्वा पूजनीया द्विजोत्तमैः ॥५॥ रक्तवर्ण दिव्यदेहं मुकुट चैव मस्तके। दक्षिणोर्चे करे शखं तस्याधश्च गदात्तमा ॥६॥ वामोर्चे तु भवेत्पदा तस्याश्च सुदर्शनम् । साकर्षणी भवेन्मूर्तिः क्षत्रियाणां वरप्रदा ॥ ७ ॥ पीततर्णा महातेजः प्रमुखीकृतमस्तका। दक्षिणो_करे शङ्ख तस्याऽधश्चक्रमुत्तमम् ॥ ८॥ वामे कौमोदकी चोर्चे तस्याऽधः पालकजं तथा । प्रद्युम्नस्य भवेन्मूर्तिर्वैश्यानां हितकामदा ॥९॥ अतसीपुष्पसंकाशा बालेन्दुकृतमस्तका। .. दक्षिणोद्धे गदा चैव तस्याश्चक्रमुत्तमम् ॥ १० ॥ . वामोर्ध्वहस्ते शङ्खं च तस्याधः पङ्कजोत्तमम् । . अनिरुद्धस्य मूर्तिः स्याच्छूद्राणां वरदायिनी ॥ ११॥. केशवो नारायणश्च माधघो वासुदेवकः। त्रिविक्रमो वामनश्च श्रीधरः प्रद्युम्नस्तथा ॥ १२ ॥ हृषीकेश: पद्मनाभो दामोदरोऽनिरुद्धकः। दक्षहस्तस्याध आद्यं दक्षिणोर्चे पुनस्तथा ॥ १३ ॥ वामस्योर्ध्वमधश्चान्ते नाम्ना प्रदक्षिणकमः ॥ १४ ॥ अथासां सर्वमूर्तीनां शस्त्रभेदाः करक्रमात् । नापसव्येन कुर्वीत मूर्ती विष्णुरूपिकाः ॥१५॥ पनशइखे चक्रगदे केशवे वासुदेवके । शङ्खाम्बुजगदाचक्र नारायणे तत्संभवे ॥ १६ ॥