________________
५२३
अपराजितपृच्छा प्रासादो वा रथो वापि नन्द्यावर्तस्तथाङ्कुशम् ॥ १७ ।। रम्मा कन्यायुक्त ! (पुष्प) माला शिवा च दर्पणं तथा । कलशं चैव हारं च अक्षसूत्रं पवित्रकम् ॥ १८ ॥ वस्त्रयुग्मं कुण्डलं च तारकाकृतिक तथा कुण्डलं चेति विज्ञेयं लाञ्छनं शोभनं खलु ॥ १९ ॥ सोमे सूर्ये वृषे पद्मे शङ्खे वै विपुलं धनम् । छत्रेषु चामरे चैव राज्यलाभं विनिर्दिशेत् ॥ २० ॥ मकरे चाक्षसूत्रे च कलशे च कमण्डलो। हारे वस्त्रे भगे चैव स्वस्तिके विजय स्तथा ॥ २१ ।। लाञ्छनाक्षरसंस्थाने शुभं बाप्यथबाशुभम् । पायव्याग्नेयमाहेन्द्रे वारुण्यां च यथाविधि ॥ २२ ॥ अकारश्च उकारश्च एये ओऔ अंअस्तथा । गजडदवं च ज्ञात्वा यथा तत्र च दृश्यते ॥ २३ ॥ एतेषु दृश्यमानेषु महाबन्धभयं भवेत् । आकारो दृश्यते यत्र अकारो वा तथैव च ॥ २४ ॥ ऋऋच दृश्यते यत्र उजघटयषस्तथा। नरपदाश्चाक्षराणि आग्नेय्यां च प्रकीर्तिताः ॥ २५ ॥ एतेषु दृश्यमानेषु अग्निदोषभयं भवेत् । (उचकारो लकारश्च ) अनुनासिकसंशकाः ॥ २६ ॥ यन्माहेन्द्राश्रितं झेयं लिङ्गे चिह्न शुभप्रदम् । ककारश्च व (ल) कारश्च भूज ऊध ? (छजपथ ) स्तथापरः ॥ २७ ॥ शषसकारा विज्ञेयाः सकारश्च सुसम्भवः । एभिस्तु लाञ्छन लिङ्गं सर्वकामार्थ साधकम् ॥२८॥ कथितानि लाञ्छनानि शल्यदोषमतः शृणु । सयोनिमात्र सम्युक्तं लक्षणीयं विपश्चिता ॥ २९ ॥ - - तस्मिल्लिङ्गे चैव मण्डलं यत्र दृश्यते । सगर्भ तद्विजानीयाद् जीवशल्यं विचक्षणम् ॥ ३० ॥ मांजिष्ठामे मण्डलं स्यात् हरिते कर्करो भवेत् । पीठे (ते) गोधां विजानीयात् कृष्णे विद्याद भुजङ्गमम् ॥ ३१ ॥ कपिले मूषको ज्ञेयः श्यामे तु कृकलाशकः । अतिरक्ते च वणे तु इन्द्रगोपकमादिशेत् ॥ ३२ ॥ किंशुकामे च खजूर: अतसीभे पिपीलिका । भस्मभे ? (स्मृमरो) ज्ञेयः वाल्हि का श्वेतभस्ममे ॥ ३३ ॥ विचित्रे वृश्चिकं विद्यात् खद्योतमग्निसन्निभे । चम्पाभे कृमय: १ प्रोका श्वेतवर्णे नरोत्तमः ॥ ३४ ॥ इति त्याज्या लिंगदोषा मूर्तिदोषं विवर्जयेत् । लक्षणोद्धरणं वक्ष्ये सर्वलिङ्गेषु कामदम् ॥ ३५ ॥ पूजा भागो मस्तकाद्यो विभक्तास्तु कलांशकः ।