________________
(२०३) लिङ्गपरीक्षानाम त्र्युत्तर द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
शणविद्ध शितं कृत्वा चले रक्षादिभिः क्रमात् । यावन्निर्वाणतां याति तावत्कुर्याद्विचक्षणः ॥ १॥ शुद्धं तत् तु निरीक्षेत तस्मिंश्चिहां शुभाशुभम् । तस्य चिह्नानुक्रमं च प्रवक्ष्यामि च नामतः ॥ २ ॥ पद्माकरं स्वस्तिकं व शङ्खाभं चक्रसन्निभम् । छत्राकृति ध्वजाकारं त्रिशूलाकृति पार्वतम् ॥ ३ ॥ मत्स्य मकर कूर्मामं कलशाकृतिकं तथा । अर्धचन्द्राकृति तथा चैवं गोवृषभाकृति ॥ ४ ॥ वज्रखङ्गाकृतिकं च दण्डभं चामराकृति । वृषावृति ! लिङ्गाकारं सयोनिमात्र (न) संयुतम् ॥ ५ ॥ स्थपतिस्थपकानां तु पुत्रपौत्र विचद्धकम् । बहूनि यत्र दृश्यन्ते लिङ्गे लिङ्गानि सर्वतः ॥ ६ ॥ पूवापरयाम्योत्तरे दृश्यते लिङ्गमुन्नतम् ।
राजा भृत्यैर्मन्त्रिभिश्च वर्द्धते प्रजया सह ॥ ७ ॥ दृश्यते पर्वतो यत्र ह्यनकशिखराकृतिः । राजा सेनावधं कुर्यान्मासेनाऽत्र न संशयः ॥ ८ ॥ समुद्रवीचिसंकाशं मण्डलाकृतिकं तथा । राजा परगतं राष्ट्रमचिराद्विनिवर्तयेत् ॥ ९ ॥ गोब्राह्मणहितं च यजमानोऽपि वर्द्धते । सुखदं सर्ववर्णानां शान्तिपुष्टिप्रदायकम् ॥ १० ॥ इन्द्रायुधनिभा रेखा चतुर्वर्णोपशोभिता । शुक्ला विप्रस्य सुखदा रक्ता राशो विधीयते ॥ ११ ॥ वैश्यस्य पीतिका रेखा कृष्णा शूद्रस्य शस्यते । अविच्छिन्ना भवेद्रेखा पुत्रपौत्रविवर्द्धिनी ॥ १२ ॥ विच्छिन्ना बिन्दुसंयुक्ता वर्जनीया प्रयत्नतः । कङ्कभास|कृतिञ्चैव गृध्रका काकृतिस्तथा ॥ १३ ॥ वलयाद्या कृतिश्चैव कौशिकाकृतिरेव च । कीटपतङ्गाश्च दृश्यन्ते यत्र वर्णतः ॥ १४ ॥ अधमं तद्विजानीयात् प्रयत्नेन विवर्जयेत् । चिह्नं तु कथितं तेषां लान्छनानि हातः शृणु ॥ १५ ॥ आवर्ते दक्षिणं श्रेष्ठं वामावर्ते विगर्हितम् । येनामिदी (आवतों) इयते यत्र विपुलो मेखलान्वितः ॥ १६ ॥ तल्लिङ्गं पूजयेन्नित्यं सर्वकामार्थ साधकम् ।