________________
(१८७) विंशतिमण्डपा नाम सप्ताशीत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
वर्धमानः स्वस्तिकाख्यो गरुडः सुरनन्दनः । सर्वतोभद्रकैलासेन्द्रनीला रस्नसम्भवः ॥१॥ चतुरची वर्धमानः स्वस्तिको भद्रसंयुतः । गरुडः सप्रतिरथः सुगनन्दः प्रभद्रकैः ।। २ ॥ कोईः सर्वतोभद्रः कैलासो भद्रकोदकैः । प्रतिरथाविन्द्रनीलः त्रिभिः स्याद्रत्नसंभवः ॥ ३॥ इत्यष्टौ च समाख्याता वर्धमानादिमण्डपाः । बाह्यच्छन्दे प्रकर्तव्या मण्डपाः सर्वकामदाः ॥ ४॥ पादोनकर्णः प्ररथः प्रभद्रो द्विगुणस्ततः । भद्रार्धे मुखभद्रं च शेषाश्चैत्रं पडंशकाः ॥५॥ निर्गमो दलार्धपादैः कर्तव्यः सर्वकामदः । भद्र द्विगुणनिष्कासः कर्तव्यः शान्तिमिच्छता ॥ ६॥ दलभक्तिकमः प्रोक्तः मूलप्रासादसङ्ख्यया : कर्तव्या निर्गमेहींनाः स्वस्वाकाराश्च मण्डपाः ॥ ७ ॥ सपीठमन्डोवरादि प्रासादाकृतिर्मेखला। भद्रे गवाक्षकोपतं मूलप्रासादसन्निभम् ॥ ८॥ उक्ताः कण कुम्भकाद्या मानः प्रासादसीमाधकम् । रथोपरथभद्राणां पीठाद्यं बाह्यनिर्गतम् ॥ ९ ॥ भित्तिः प्रासादमानेन पीठान्तोत्तानपकः । एकं वा त्रीणि वा कुर्याद् द्वाराणि कामदानि वै ॥ १० ॥ शुकस्तम्भानुसूत्रेण चाष्टांशं भित्तिमाचरेत् । मध्यपीठोच्छ्योत्सेधा मण्डपाधाः समस्तकाः ॥ ११ ॥ अष्टांशवृत्तो तश्च वितानान्तं समुच्छितिः । चतुष्किका याम्योत्तरे अग्रे वा वामतोऽथवा ॥ १२ ॥ या प्रासादे द्वारशाखा तद्विधं मण्डपादिकम् । करोटकं स्यात्तर्ये वुधावन्धो ? तु कारयेत् ॥ १३ ॥
............... । तत उर्व संवरणाऽन्तिमं कटघण्टोनिन्छ्तम् ॥ १४ ॥
इति वर्धमानाद्यष्टमण्डपाः॥