________________
४८१
अपगजितपृच्छा तथाऽपरे सुप्रभस्तु कर्तव्यः सर्वकामदः । त्रिपदं चायभद्रं च स भवेत् पुष्पभद्रकः ॥ १६ ॥ पुग्पकः सर्वत्रिपदः परित्यक्तचतुष्क्रिकः । एवं तु युक्तिर्विज्ञेया मण्डपाः पुष्पकादयः ॥ १७ ॥ चतुःषष्टिस्तम्भयुक्त: पुष्पको नाम विश्रुतः । द्विद्विस्तम्भत्यागयुक्त्या पुष्पाद्याः सप्तविंशतिः ॥ १८॥ पुष्पकाद्याश्च युक्तास्स्युः समैर्वा विषमैस्तलैः । अनुक्रमं युक्तमाद्य ? सप्तविंशति मण्डपाः ॥ १९ ॥ समैः क्षणः समः स्तम्भैः समैश्चैवमलिन्दकैः । विषमे तु तुलापर्ट गूढे चन्द्राबलोकना ॥ २० ॥ निर्गढे नृत्य आख्यातोऽधस्ताद भद्रावलोकना । चन्द्रावलोकना जालैः कार्याः कर्णानुगास्तथा ।। २१ ॥ निःस्तम्भा भित्तिका स्तम्भैरष्टांशा च चतुष्किका । स्तम्भेषु युग्मस्तम्भाश्च मूलसूत्रसमुद्भवाः ॥ २२ ॥ क्षणमध्येषु सर्वेषु स्तम्भमेकं न दापयेत् । युग्मं च दापयेत्तत्र वेधदोषविवर्जितम् ॥ २३॥ मूलस्तम्भे यथासूत्रं स्तम्भो यस्तु मण्डपे। तदा नगरनृपेन्द्रयजमान जयः सदा ॥ २४ ॥ उत्पद्यते स्तम्भवेधे पद्मिनी नाम राक्षसी। पीडयेत् पुरराजादीन् वास्तुविद्भिरुदाहृतम् ॥ २५॥ द्विद्विस्तम्भ-हासयोगे चतुष्षष्ट्या द्वादशान्तम् । पुष्पकाद्या इमे सूत्र सप्तविंशतिमन्डपाः ॥ २६ ॥ इति सूत्रसन्तानगुणकीर्ति रकाशप्रोस्तृश्रीभुवनदेवाचार्योक्ता पराजितपृच्छायां पुष्पकादिसप्तविंशतिमण्डपाधिकारोनामषडशीत्युत्तरशततमं सूत्रम् ।।
६१ अ.