________________
अपराजितपृच्छा
स्यान्मण्डवेषु प्रासादग्रस्तेषु स्वामिविग्रहः । जगत्यां चैव प्रासादग्रस्तायां तु प्रजाभयम् ॥ १५॥ शालाभिर्मूलप्रासादो ग्रस्तः स्याद्दोषकारकः । तग्रस्तं नैव कर्तव्यं स्वगोत्रे कलह रिपुः॥१६॥ उत्तानपट्टेः प्रासादः प्रजामस्तो नृपो यथा । जगतीशालाविधिश्च मूलसूत्रानुसारतः ॥ १७ ॥ जगतीमूलप्रासादो ग्रस्तौ यदि परस्परम् ।। कुरुतस्तावन्धकारं राहुग्रस्ते दिवाकरे ।। १८ ॥ ज्येष्ठमध्यकनिष्ठाश्च प्रासादा ये भवन्ति च । तदने मण्डपान् कुर्याज्ज्येष्ठमध्यकनिष्ठकान् ॥ १९॥ समं तलं च विषमं संघाटो मुखमण्डपः । भित्यन्तरे यदा स्तम्भपट्टादिनॆव दूषणम् ॥ २० ॥ क्षणमध्येषु सर्वेषु पदमेकं न दापयेत् । युग्मं च दापयेत्तत्र वेधदोषविवर्जितम् ॥ २१ ॥ क्षणमध्येषु सर्वेषु स्तम्भमेकं न दापयेत्।। दद्याद्युग्माकारमेव मूलगर्भ न पीडयेत् ॥ २२ ॥ मण्डपानां समस्तानां लक्षणं कथ्यतेऽधुना। गति स्तम्भं च भित्तिश्च विभक्तिंभागसङ्ख्यया ॥ २३ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
समस्तमण्डपनिर्णयाधिकारो नाम पञ्चाशीत्युत्तरशततमं सूत्रम् ॥