________________
(१८५) समस्त मण्डप निर्णया नाम पश्चाशीत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि मण्डपानां तु लक्षणम् । प्रासादस्य प्रमाणेन मण्डप कारयेद् बुधः ॥ १ ॥ समं सपादं सार्धं च पादोनद्वयमेवच । द्विगुणं चापि कर्तव्यं सपादद्वयमेव च ॥ २ ॥ सायं तु कर्तव्यमत ऊर्ध्वं न कारयेत् । सप्तधा प्रमाणसूत्रं वास्तुविद्भिरुदाहृतम् ॥ ३॥ प्रासादेषु च सर्वेषु दशहस्ताधिकेषु च । उक्तं समं सपादं च मण्डपं वास्तुवेदिभिः ॥ ४ ॥ पञ्चहस्तात्परं चैव यावत्स्याद् दशहस्तकम् | साधयामं मण्डपं च सृष्टं वै विश्वकर्मणा ॥ ५ ॥ चतुर्हस्ते व प्रासादे पादोनद्वयंशविस्तरः | त्रिहस्ते द्विगुणश्चैव तद्विशिष्टा चतुष्किका ॥ ६॥ चतुष्कं वाऽपि चाष्टांशं शुकस्तम्भानुसारतः । वितानं वै संवरणा चोर्ध्वमानेन मण्डपे ॥ ७ ॥ अलिन्दैर्द्विगुणैश्चात्र द्विगुणं त्र प्रकल्पयेत् । द्वयचत्वारोऽलिन्दा द्विगुणात्परमण्डपे ? ॥ ८ ॥ वितानानि संवरणा विभक्तानि चतुष्किका ? | स्वके स्वके च स्थाने तु पादाद्या तद्भुक्तिभिः ॥ ९ ॥ सार्धमानेनाऽयते च तत्र मूलसंवरणोक्तिः ? | शुकनाससमा घण्टा न न्यूना न ततोऽधिका ॥ १० ॥ मूलप्रासादशिखरमुच्छ्रये यत्प्रकल्पितम् । छायो स्कन्धपर्यन्तमेकविंशतिभाजितम् ॥ ११ ॥ अङ्कदिशा सूर्य त्रयोदशान्तमुत्सृजेत् । शुकनासस्य संस्थानं छाद्योर्ध्वे पञ्चघोन्नतम् ॥ १२॥ तेन मानेन पादान्तं (दांशं) मण्डपोर्ध्वे समुत्सृजेत् | तदूर्ध्वे च न कर्तव्यमधःस्थं नैव दूषयेत् ॥ १३ ॥
प्रासादा मण्डपाः शाला जगत्यश्च व्यतिक्रमात् । अन्योन्यं च यदाप्रस्ता महादोष इति स्मृतः ॥ १४ ॥