________________
(१००) शालागृहनिर्णयो नाम शततमं सूत्रम् ॥
विश्वकर्मोवाच
शुद्धा तथा व संबद्धा संयुता च परिभ्रमा । शालाचतुर्विधाः प्रोक्ताः शृणु त्वमपराजित ॥१॥ शुद्धा च केवला शाला संबध्धालिन्दतस्तथा। शालाश्रेण्या संयुता स्यात् मध्यालिन्दा परिभ्रमा ॥२॥ एकशालादितो वृद्धया चान्ते स्याद् दशशालिकम् । सर्वाश्चालिन्दरहिताः शुद्धा नाम्ना समीरिताः ॥३॥ सामालिन्दा दशशाला एकशालादितः क्रमात् । संबद्धा नामतो शेया प्रोक्ताश्च गृहकर्मणि ॥४॥ शालासंघट्टमध्ये तु बाह्यालिन्दैस्तु वेष्टिता । संयुता नामतो ज्ञेया वास्तुविद्भिरुदाहृता ॥ ५ ॥ पृथगेकैकशालासु मध्येऽलिन्दा यदि स्थिताः । परिभ्रमेति विज्ञया सर्वशान्तिकरी नृणाम् ॥ ६ ॥ छन्दभिन्ना प्रतिभिन्ना संपुटा च प्रतिक्रमा। उक्ताश्चतुर्विधाः शाला: पूर्वच्छन्दसमुद्भवाः ॥ ७ ॥ शालामध्ये पवरका फलकानि भित्यन्तरे । छन्दभिन्नेति तन्नाम सर्वकामप्रदायिनी ॥ ८॥ शालामध्ये पवरकास्तथा षट्दारुकं भवेत् । प्रतिभिन्नति तन्नाम कर्तुः सर्वगृहोत्तमा ॥९॥ भित्तिमध्ये च षड्दारु तथालिन्दे तु बाह्यतः। संपुटेति च तन्नाम प्रशस्ता गृहकर्मणि ॥१०॥ शालोत्तरे द्वाघलिन्दो क्वचित्पूर्वे तथैव च । प्रतिक्रमेति तन्नाम कर्तच्या सर्वकामदा ॥ ११ ॥ गृहमाला गृहनाभिर्गृहसंघट्ट एव च । गृहाणक इति प्रोक्तं गृहभेदचतुष्टयम् ॥ १२ ॥ कुक्षौ चैवाग्रतः पृष्ठे पक्तौ चैव गृहाः स्थिताः। गृहमालेति नाम्ना वै प्रशस्ता छन्दसम्भवा ॥ १३ ॥ विदिक्षु दिक्षु पृष्ठेऽग्रे कुक्षौ वेश्मानि सर्वतः। गृहसंघटनामासौ संप्रोक्तः शास्त्रकोविदः ॥ १४ ॥ गहमध्ये पवरका नानाकारा हलिन्दकाः । आलिन्दैश्चापवरकैहनाभिरितीर्यते ॥ १५ ॥