________________
गृहसंयोजननिर्णयो नाम नवनवतितमं सूत्रम् ।। एकशालानि पञ्चैव द्विशालं सप्तभद्रकम् । सप्तैव चैकशालानि तद्भवेत् सप्तशालकम् ॥ १४ ॥
इति सप्तशालम् ॥ द्विशालानि च चत्वारि तद्भवेदष्टशालकम् । चतुःशालद्वयं योज्यमष्टशालं तदुच्यते ॥ १५ ॥ त्रिशालद्वितयं योज्यं द्विशाले चाष्टशालकम् । त्रिशालं चैकशालं द्वे द्विशाले चाष्टशालकम् ॥ १६ ॥ एकशालद्वयं चैव चतु:शाल विशालकम् । तदुक्तमष्टशालं वै वास्तुशास्त्रविशारदैः ॥ १७ ॥ त्रिशालं योजयेदेवमेकशालाय तथा । द्विशालेन तु संयुक्तं तद्भवेदष्टशालकम् ॥ १८ ॥ एकशालद्वयं योज्यं विशालत्रितयं तथा । एवं संयोजितं यत्तु तद्भवेदष्टशालकम् ॥ १९ ॥ एकशालानि चत्वारि द्विशालद्वयमेव च । एवमादिसंयोगे तु तद्भवेदष्टशालकम् ॥२०॥
इत्यष्टशालम् ॥ विशाल च त्रिशाल चतुःशालं नवशालकम् ।। चतु:शालद्वयं चैकशालं तु नवशालकम् ॥ २१ ॥ त्रिशालत्रितयं योज्यं तद्भवेन्नवशालकम् । एकशालं विशालं त्रिशालद्वयेऽङ्कशालकम् ॥ २२ ॥ एकशालं द्विशालानां चतुष्क नवशालकम् । पञ्चैकशालानि चतुःशालं तु नवशालकम् ॥ २३ ॥
इति नवशालम् ॥ चतुःशालद्वयं योज्यं द्विशाले दशशालकम् । त्रिशालत्रयमायोज्यैकशालं दशशालकम् ॥ २४ ॥ द्विशालकानि पञ्चैव दशशालं तु तद्भवेत् ।। द्विशालचतुष्के द्वयेकशालं तु दशशालकम् ॥ २५॥ एकशालत्रयं चैव चतुःशालं त्रिशालकम् । दशशालमिति प्रोक्तं वास्तुशास्त्रविशारदैः ॥ २६ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
गृहसंयोजननिर्णयाधिकारो नाम नवनवतितम सूत्रम् ॥