SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा इन्द्रराज्योद्भवं शक्रं पौरुष भीमविक्रमम् । महाजयं पुरं नाम सर्वदानन्दकारकम् ॥ १६॥ इत्थमाकृतयो गुणाः कथितास्तव मयाधुना । शुभानां सुप्रशस्तानां पुराणां विंशतिस्तथा ॥ १७ ॥ इति पुरगुणाधिकारः॥ अग्निदं वायवं चैव शकटं युग्मशाकटम् । वज्रं त्रिशुलमाख्यातं कर्णिकं चैव सप्तमम् ॥ १८॥ पता: सप्तपुरश्चैव महादोषभयावहाः। तासां रूपं तथाकारं कथये तव साम्प्रतम् ॥ १९॥ अग्निदं च त्रिकोणाख्यं षट्रोणं चैव वायवम् । शकट शकटाकारं युग्मं द्विशकटाकृति ॥ २० ॥ वज्रकं वज्रसङ्काशं त्रिशूलं त्रिशूलाकृति । कर्णिकार विकर्ण तु चाकाराः कथितास्तव ॥ २१ ॥ अग्निदेऽग्निमयं घोरं वायवं बहुक्लेशदम् । शकटं तु पुरं चैव प्रजाक्लेशावहं स्मृतम् ॥ २२॥ पुरे द्विशकटाकारे तस्करादि भयं भवेत् ।। वज्राकृति पुरं यत्र वज्रपातस्तदोद्भवेत् ॥ २३ ॥ त्रिशूले च पुरे चैव सदा युद्धं समुद्भवेत् । कर्णिकारे च दुर्भिक्ष प्रजा तत्र न नन्दति ॥ २४ ॥ इत्यादिसप्तदोषांश्च वर्जयेत् पुरदोषदान् । विंशतिः सुखदाः ख्याता दोषदाः सप्त एव च ॥ २५॥ पुरार्धेन भवेद् ग्रामो ग्रामार्धेन तु खेटकम् । खेटकार्धेन भवेत् कूट कूटार्धेन तु कर्वटम् ॥ २६ ॥ पुरे सप्तदश मार्गा ग्रामो वै नवमार्गतः । खेटके पञ्च मार्गाः स्युतिभिर्मार्गश्च कूटकम् ॥ २७ ॥ द्वौ मार्गों कवटे ख्याती छन्दाः पञ्च प्रकीर्तिताः। पुरग्रामखेटकं च कूटं च कर्वटाभिधम् ॥ २८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां पुरलक्षणाधिकारो नाम त्रिसप्ततितम सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy