________________
(७३) पूरलक्षणं त्रिसप्ततितमं सूत्रम् ॥
विश्वकर्मोवाच
वक्ष्ये पुरस्य चाकारं साम्प्रतं लक्षणं पुनः । प्रशस्तं दोषरहितं पुरनामानि विंशतिः ॥ १ ॥ माहेन्द्रं सर्वतोभद्रं सिंहावलोकवारुणे । नन्द्यावर्ते च नन्दाख्यं पुष्पकं चैव स्वस्तिकम् ॥ २ ॥
पार्श्वदण्डं जयन्तं च श्रीपुरं रिपुमर्द्दनम् । स्नाहं दिव्यमुत्तरं च धर्मं कमलशकदे ॥ ३ ॥ महाजयं पौरुषं च साम्प्रतं कथितं बुधैः । पुराणां विंशतिश्चैव ख्याता भुवनमण्डनम् ॥ ४ ॥ माहेन्द्रं चतुरश्रं च सर्वतोभद्रमायतम् । सिंहावलोकनं वृत्तं वृत्तायतं च वारुणम् ॥ ५ ॥ मुक्तकोणं च नन्दाक्षं नन्द्यावर्ते : च स्वस्तिकम् । पुष्पकमष्टदलाख्यं स्वस्तिकं तु चाष्टाश्रकम् ॥ ६ ॥ यवाकृति जयन्तं च दण्डं स्यादतिदीर्घकम् । श्रीपुरं चैकप्रकारे द्वाभ्यां तु रिपुमर्द्दनम् ॥ ७ ॥ शैलकुक्षौ तथा स्नाहं दिव्यकं शैलमस्तके | नद्युत्तरं च सौम्याख्यं सरिद्याम्ये तु धर्मकम् ॥ ८ ॥ कमलं पश्चिमे नद्या नद्याः पूर्वे तु शक्रदम् । पौरुषं पुरुषाकारं नद्योश्चैवं महाजयम् ॥ ९ ॥ पुरं विंशतिसङ्ख्याकं रम्यं सुरनरोरगैः । स्वस्तिशान्तिकरं नित्यं गोब्राह्मणधराभुजाम् ॥ १० ॥ माहेन्द्रं चतुरथं च प्रतापकीर्तिवर्द्धनम् । वृद्धिदं सर्वतोभद्रं नित्यं तद्भद्रशान्तिदम् ॥ ११ ॥ सिंहावलोकनं रम्यं हरे (ते) रिपुरिषाव (त) घी (वी) ? | वारुणे तु प्रजावृद्धिर्नन्दास्ये नन्दनं चिरम् ॥ १२ ॥ नन्द्यावर्त मङ्गलाख्यं त्रिदशानां च पुष्पकम् । स्वस्तिकृत्स्वस्तिकं प्रोकं जयन्तं च जयावहम् ॥ १३ ॥ वृद्धिदं पार्श्वदण्डं च श्रीप्रदं श्रीपुरं तथा । रिपुमर्द्दनं रिप्वन्तं स्नाहं चैवाभयप्रदम् ॥ १४ ॥ दिव्यकं देवभवनमुत्तरं चोत्तमोत्तमम् । धर्मे धर्मकरं नित्यं कमलं शान्तिदायकम् ॥ १५ ॥