________________
1५०
अपराजित पृच्छा
लीयन्ते सर्वदेवाश्च कल्पान्ते लिङ्गमध्यगाः । कल्पान्ततोऽक्षयं लिङ्गं सागरे ? क्षेत्राधिपम् ॥ १५ ॥ द्वीपे द्वीपे पुनस्त्वेवं रुद्रलोकलिङ्गोद्भवम् । तेभ्यो जाता पुनः सृष्टिर्जगत्स्थावरजङ्गमम् ॥ १६ ॥ सजलाम्भोधिसंसारे एकार्णवीभूतसंस्थितौ । विशीर्णानुमार्गाख्यात तत्प्रवाहेन समुद्भवाः ? ॥ १७ ॥
वर्षाश्रयासमुद्राच सृष्टिकालसमुद्भवाः । प्रदक्षिणं स्थितास्त्वेवं मेरोश्च परिखार्णवाः ॥ १८ ॥ क्षीरोदे संस्थितो विष्णुः सजलांभोधिनिःस्वने । शेषपर्यङ्कशायी च पादौ लग्नौ तथा श्रिये ॥ १९ ॥ क्षीरोदसंस्थितो विष्णुः सजलाम्भोदनिस्वनः । शेषपर्यङ्कायनः पादलग्नश्रियोत्तमः ॥ २७ ॥ ब्रह्माऽभवद् विष्णुनाभेः स्वयम्भूः सृष्टिकारणम् । ब्रह्मसूनुस्ततो जातः काश्यपो मुनिपुङ्गवः ॥ २१ ॥ ख्याता तदुद्भवा सृष्टिर्जगत् स्थावरजङ्गमम् । ताभ्यां च शक्तिराख्याता संसारसृष्टिकोद्भवा ॥ २२ ॥ दैत्यासुरी च गन्धर्वी यक्षी विद्याधरी तथा । वैदेवी नागराजेन्द्री नरेन्द्री नाम चाष्टमी ॥ २३ ॥ दितेश्च देवाः सम्भूता असुर्य्याश्चासुरोद्भवः । गन्धवजाश्च गन्धर्वा यक्ष्या यक्षसमुद्भवः ॥ २० ॥ विद्याधर्यास्तदभिधाः वदेव्याश्चैव देवताः । विहगा नागराजेन्द्रा जाता नागेन्द्रकास्तथा ॥ २५ ॥
नरेन्द्राश्च नरा विप्र - क्षत्रविट्शूद्रसंशकाः । शिश्च कुलान्येवं प्रकृतीनामनेकधा ॥ २६ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां अक्षयलिङ्गसृष्टयुङ्गवाधिकारो नामैकविंशं सूत्रम् ॥