________________
(२१) अक्षयलिङ्गसृष्ट्युद्भवो नामैकविंशं सूत्रम् ॥
अपराजित उवाच
पूर्वसष्टयुद्भवो यद्वत्तथा तन्नाम देवता । अन्यथा वा भवेदिन्द्रस्तथा च त्रिदशोद्भवः ॥१॥ उपस्थिते च कल्पान्ते किं पुनः सृष्टिरुद्भवेत्।।
पूर्वाभिधानयुक्ता चान्यथा वा कथय प्रभो ॥२॥ विश्वकर्मोवाच
कल्पान्ते च गते त्वेवं जीवरूपा नु चेतसा। सर्वे ते प्रलयं यान्ति गङ्गेव हरमस्तके ॥३॥ कल्पे कल्पे प्रलीयन्ते यत्र यत्रापि देवताः। आत्मरूपे पञ्चलिङ्गे सर्वभूतात्मकेषु च ॥४॥ अविमुक्तं च केदारं ओंकारामरकंटके। पञ्चमं श्रीमहाकालं कल्पान्ते लिङ्गमव्ययम् ॥ ५॥ ततः काले समुद्भता भरतक्षेत्रदेवताः । बदरीमथुरायोध्या योगेशं विश्वसम्भवः ॥६॥ पञ्चाक्षयानि कल्पान्ते हरिक्षेत्राणि वै विदुः। एषु भव्यकलाः सर्वा विष्णोश्चामोधमालिनी ॥७॥ भूर्भुवं भुवनेशं च भवोद्भवं तृतीयकम् । अट्टहासं तत्पुरुषं केतुमालं स्वयंभुवम् ॥ ८॥ ईश्वरं शङ्करं श्रेयं श्रीकण्ठं च उग्रोहरम् । अक्षयपञ्चलिङ्गस्य इलावते समुद्भवः ॥९॥ पुष्करं पुष्कराख्यं च शङ्कतेज महाबलम् । गोकर्ण पञ्चमं लिङ्ग पुष्कराख्यऽ क्षयोद्भवम् ॥ १० ॥ सद्यं शान्तं महाकान्तं विश्वतेजो महोद्भवम् । पञ्चाक्षयानां लिङ्गानां पौरुषे स्यात्समुद्भवः ।। ११ ।। शशशाङ्कशंभू च सिद्धेशं चन्द्रशेखरम् । पञ्चाक्षयानि लिङ्गानि शङ्कक्षेत्राधिपानि च ।। १२ ।। वामदेवं महादेवं कान्तं कमललोचनम् । अक्षयं कल्प लिङ्ग सागराक्षे ? स्वपराजित ॥ १३ ॥ सद्योवामस्तथाधोरस्तत्पुरुष ईश एव च । अक्षये वाजा देवा रम्यके सृष्टिसंभवे ॥ १४ ॥