________________
कल्पान्लो नाम विशं सूत्रम् ।
४७
विश्वकर्मोवाच
कल्पान्तो प्राप्यते वत्स ह्युल्कापातैरनेकशः । तस्य चिह्नानि रूपाणि कथयामि समासतः ॥ १५ ॥ उल्कापातादू वज्रघातादन्नाभावाज्जनात्ययः । सादित्ये च विनामेधैर्वज्रविद्युत्पातोद्भवः ॥ १६॥ अन्दान्ते भूमिकम्पश्च ह्यब्दार्धे तु पुनः पुनः । पांशुवृष्टिश्च पतति सादित्ये रजनी यथा ॥ १७ ॥ यमदृष्ट्रासमं रौद्रं भूतलं च प्रदृश्यते । आन्ध्यं घोरं भवेन्मेधैः सर्पवृष्टिः प्रजायते ॥ १८॥ स्वर्गतः पतति त्वेवं पुरुषो विकृताननः। सर्वेशे सौ रसं भूया मनुजा वीरविक्रमाः ? ॥ १९ ॥ यक्ष किन्नरगन्धर्वा: पिशाचोरगराक्षसाः। सर्वे ते प्रलयं यान्ति कल्पान्ते च समुत्थिते ॥२०॥ पर्वताः सागरा द्वीपाः सरितः सागरादिकम् । भक्षन्ति सर्वभूतानि कालाग्निश्च यमो यथा ॥ २१॥ चतुर्दशमन्वन्ते च दिने प्राप्ते यथा ध्रुवम् । रजन्यन्ते च सम्प्राप्ते झुदिते सूर्यमण्डले ॥ २२ ॥ बिम्बमध्यसमास्त्वेवं पुरुषाननसंनिभाः। विकृताननरुपाश्च दृष्ट्रायुक्ताः करालिनः ॥ २३ ॥ द्वौ सूर्यो पूर्वदिग्भागे द्वौ च दक्षिणदिस्थितौ । सूर्यद्वयं पश्चिमे चोत्तरे सूर्यद्वयोदयः ॥ २४॥ द्वौ सूर्यौ नागलोकस्थौ द्वौ सूर्यावुपरि स्थितौ । इत्थं ते द्वादशादित्याः कल्पान्ते सर्वतो दिशम् ॥ २५ ॥ दहन्ति पृथिवीं कृत्स्ना सशैलवनकाननाम् । सर्वभूतानि दहति कालाग्निश्चापरस्तथा ॥ २६ ॥ देवदानवगन्धर्वान् पिशाचोरगराक्षसान् । पृथिव्यां दह्यमानायां हविर्गन्धः प्रजायते ॥ २७ ॥ अस्तंगते सूर्यबिम्बे द्रोणमेघोद्भवस्तथा। वर्षन्ते च महामेघा धारा करिकरानिव ।। २८॥ अष्टादशैव मेघाश्च महाद्रोणघनोदये । पृथिवीत्थं समन्ताच्च समुद्रैश्चार्णवीकृता ॥ २९ ॥ चतुर्दशलक्षयोजनानि ध्रुवं रक्षतु उदकोद्भवाम् । तमस्रौ विशार्यन्ते अंभोर्भव तनो वृता ? ॥ ३० ॥