________________
(२०) कल्पान्तो नाम विंशं सूत्रम् ॥
अपराजित उवाच
संवत्सरास्तु कथिता मन्मनोभ्रान्तिहारकाः । युगानां तु प्रमाणं च कथयस्व परेश्वर ॥१॥ मन्वन्तरप्रमाणं किम् कथं युगचतुष्टयम् ।
कल्पान्तं च कथं देव प्रसादं कुरु मे प्रभो ॥२॥ विश्वकर्मोवाच
अतस्तात प्रवक्ष्यामि प्रमाणं तु युगोद्भवम् । चतुर्दशमन्वन्तः कल्पमेकं तु सङ्ख्यया ॥३॥ येन सङ्ख्याप्रमाणं च वत्सरादि प्रवर्तते । अनुक्रमेण वक्ष्यामि यथा प्रोक्तं पृथविधम् ॥ ४॥ अष्टाविंशतिसहस्राण्यने चाष्टशतानि च । संवत्सरैश्च गुणयेत् कृतसङ्ख्याप्रमाणतः ॥५॥ सहस्राण्यष्टाविंशतिर्लक्षाणि दशसप्त च । प्रमाणं कृतयुगस्य देवश्च प्रभाषितम् ॥ ६ ॥ तस्य पादत्रयं त्रेता द्वापरं तत्पदद्वयम् । पादमेकं कलियुगं प्रमाणमुदितं त्विदम् ॥ ७ ॥ तथा युगचतुष्कं च चतुर्मिश्च युगैर्भवेत् । चतुष्कस्य प्रमाणं च कथयामि यथाक्रमम् ॥ ८॥ त्रिचत्वारिंशलक्षाणि सहस्राणां च विंशतिः । चतुष्कस्य प्रमाणं च सृष्टिकालसमुद्भवम् ॥९॥ द्वासप्ततिचतुष्काणि मनुश्चैव प्रवर्तते। कालसङ्ख्या मनोः प्रोक्ता पृथक् सङ्ख्या चतुर्दश ॥ १० ॥ संभूक्षे तलाभिधानं च प्रारमुनिस्तृतीयकम् । संकल्पभाव सांतश्च सावर्णिकस्यानु सप्तमम् ? ॥ ११ ॥ समनु प्लवसौम्याश्च आल्हादश्च सूर्यात्मकः। त्रिदशाक्ष पूर्णस्य तु सप्तभि न चतुर्दश ? ॥ १२॥ मनुभिश्चतुर्दशभिः कल्पसङ्ख्या प्रमाणतः।
एवमुक्तं च कल्पान्तं पुनरेवं समुद्भवः ॥ १३ ॥ अपराजित उवाच
कल्पान्तश्च कथं तात कैश्चिौरुपलक्षितः। देवेशाहं न जानामि कल्पान्ते सृष्टिच्छन्दकम् ॥ १४ ॥