________________
ग्रहादिध्रुवमण्डल सप्तदश सूत्रम् ॥ तारकालिङ्गमित्युक्तं मातमण्डलसम्भवम् । वैष्णवे च पदे चैव भ्राम्यतीत्थं ध्रुवावृतम् ॥ १५ ॥ दिवाकरः शशाश्च भौमश्च बुध एव च । त्रिदशाचार्यशुक्रौ च शनिश्च राहुकेतुकौ ॥ १६ ॥ सूर्याचं व समं त्वेवं धुवग्रहादिकं तथा । भ्राम्यति दक्षिणावर्तमचाल्यं ध्रुवसत्पदम् ॥ १७ ॥ प्रदक्षिणं तथाणां सम्पूर्णा सप्तविंशतिः । ऋक्षमध्ये यथा राशौ ग्रहास्तिथ्यादयस्तथा ॥ १८॥ चार: कामति योगेन मेरुमावृत्य दक्षिणम् । मण्डलानि पृथुत्वं च बिस्वमानं च कथ्यते ॥ १९ ॥ क्षारार्णवोदकं भूमौ कथ्यते ग्रहमण्डलम् । योजनैव्योमसङ्ख्यातं कथयामि समासतः ॥ २० ॥ चतुर्दशलक्षाणां च योजनानां तु सङ्ख्यया। ध्रुवचक्रसमुत्थाध्वा चक्षुर्शानेन व्योनि च ॥ २१॥ सप्तलक्षार्धमादित्यं सहस्राणां द्विसप्ततिः । भूमिक्षारार्णवोच्वं च योजनान्यर्कमण्डलम् ॥ २२॥ तत्परं चन्द्रमण्डलं पञ्चाशत्सहस्रैः स्थितम् । अष्टाशीतिसहस्राणि सोमो भौमसंस्थितिः ॥ २३ ॥ लक्षं त्रिषष्टिसहस्राणि भौमोर्चे बुधमण्डलम् । चतुर्विंशसहस्राणि बुधोर्ध्वं च बृहस्पतिः ॥ २४ ॥ सूर्योवें चैव लक्षार्द्ध शुक्रस्य मण्डलं विदुः । शुक्रलोकात्तथा चोर्ध्वं षष्टिभिः सहस्रकैः ॥ २५ ॥ सूर्यतश्च परे ख्यातः सूर्यपुत्रशनैश्चरः। सूर्याधः षष्टिसहस्र राहुमण्डलमास्थितम् ॥ २६॥ रवेः समन्तात् केतुश्च रथपृष्ठेऽनुगच्छति । शतकोटियोजनानां ब्रह्माण्डस्य प्रमाणकम् ॥ २७ ॥ मेरुलिङ्ग समाख्यातं पृथ्वी च जलधारिका । वितानं व्योमचाख्यातं लम्बतीत्थमुमापतिः ॥ २८ ॥ ध्रुवमण्डलमुत्पन्नं ब्रह्माण्डाकाररूपकम् । तारामण्डलमित्युक्तं कथ्यते तश्च सङ्ख्यया ॥ २९ ॥ सप्तदशार्बुदमेवं लक्षाणां षष्टिरेव च । षष्टिश्च तारकायुक्तं सङ्ख्यातं ध्रुवमण्डलम् ॥ ३० ।।