________________
(१७) ग्रहादिध्रुवमण्डलं सप्तदश सूत्रम् ।।
अपराजित उपाच
कथं दिनं कथं रात्रिः संसारसृष्टिकोद्भवः । केन साऽऽक्रमते चेत्थं चन्द्रसूर्यभ्रमणे रता ॥१॥ नक्षत्राणि ग्रहाश्चैव धुवाद्याश्च समस्तकाः ।
तेषां मृत्युः कथं प्रोक्तः कथयस्व प्रसादतः ॥२॥ विश्वकर्मोवाच
तेजसः काश्यपस्यार्कचन्द्रमत्युसमुद्भवः ।। शिवशक्तिसमायोगात् संसारसृष्टिसम्भवः ॥ ३ ॥ शिवः सूर्यः शशी शक्तिः संसारसृष्टिकोद्भवः । दिवाकरः शिवो भूत्वा शशी चैव निशाकरः ॥४॥ दिवारात्रिसमायोगो योगश्च चन्द्रसूर्ययोः । तेजसो मृत्युसंयोगः संयोगः सृष्टिकारकः ॥५॥ सूर्यवंशोद्भवाश्चैव चन्द्रवंशोद्भवा नृपाः। प्रवर्तते मही राज्यं नृपश्च पृथिवीपतिः ॥ ६॥ सूर्यवंशे पृथूराजा बुधः शशिकुलोद्भवः ॥ सूर्यवंशसमृद्धौ तु क्षीयते सोमवंशकः । सोमवंशसमृद्धौ च क्षीयते सूर्यवंशकः ॥ ७ ॥ एकोत्तरशतं यावत् क्षीयेते वंशकावुभौ । पृष्ठोरुस्पर्शभूतश्च संप्रवेत द्वंसाधिपः ? ॥८॥ ब्रह्मपुत्रो मरीचिश्व तज्जात; कश्यपो मुनिः।। सूर्यों जातः कश्यपाच सूर्यपुत्रो मनुस्तथा ॥९॥ मनोश्चेवाकुरुत्पन्नस्ततश्च कुक्षिसम्भवः । कुक्षिपुत्रो विकुक्षिश्च विकुक्षेर्वनसम्भवः ॥१०॥ वेनो नाम महाराजो महावीयों महाबलः । शरीरमथनात्तस्य तथा पृथुः समुद्भवः ॥ ११ ॥ पृथुश्चैवं समुद्भतस्तथा ख्यात: कुलाधिपः । रामश्च रघुवंशे ऽभूत् सूर्यवंशे महाबलः ॥ १२ ॥ सूर्यपुत्रः शनिर्जातः केतुकश्च समुद्भवः ? । अष्टोत्तरशतं चैव केतुकश्च ब्रह्मकोद्भवः ? ॥ १३ ॥ शम्भुतेजोभवं चोर्ध्व दृश्यते ज्ञानचक्षुषा । नक्षत्रयोगा राशिश्च तिथयः करणादिकम् ॥ १४ ॥