________________
इक्षुयन्त्रम्] त्रयस्त्रिंशोऽध्यायः ।
भ्रमराधोगतं (?) युक्त्या कृत्वास्मिन् भारवाहकम् । यंशायतं चलं बद्ध्वा भारं तन्मूलतः क्षिपेत् ||१२७ ॥ दण्डाग्रे क्षेपणीं बद्ध्वा पाशैवंशाग्रजां दृढाम् । भाण्डं च क्षेपणीमूले योजयेच्चलबन्धतः ॥ १२८ ॥ जलाशयोपरिगतः सङ्क्रमीथस्थितो नरः। गृहीत्वा क्षेपणी दोभ्यामाकृष्य जलमुद्धरेत् ॥ १२९ ।। अथेक्षुयन्त्रं
षडङ्गुलविष्कम्भं वा पादोनद्विकरायतम् । सुवृत्तमार्जवयुतं सुस्निग्धं सारदारुजम् ॥ १३० ॥ तदग्रेऽर्काङ्गुलायामं शिरःकाष्ठं दशाङ्गुलम् । विष्कम्भमुभयोः कार्य तन्नाहेऽथाष्टधा कृते ॥ १३१ ।। एकैकांशैश्चतुर्दिक्षु कारयेञ्चतुरर्गलम् । अर्गलद्वयमध्यस्थान्यन्तरालान्यथान्यकैः ॥ १३२ ॥ वृत्तपृष्ठान्यर्गलानि काष्ठोष्ठोच्चाय(मका ? ता)नि च । अन्तरालानि निम्नानि द्विद्विमात्रप्रमाणतः ॥ १३३ ॥ एवं स्तम्भयुगं कृत्वा संस्थाप्योलूखलावटे । अन्तरालेऽर्गलं कृत्वा मेलयित्वा निरन्ध्रकम् ॥ १३४ ॥ शिरकाष्ठादधः कार्य स्तम्भं तत्रगपट्टिका । यन्त्रस्तम्भयप्रोता विश्लेषभयशङ्कया ॥ १३५ ॥ तयोरन्यतरस्योर्ध्वशिखासम्बन्धयष्टिगैः । वृषैः स्तम्भमयेत् स्तम्भं तदन्यस्त्वन्यथा तदा ॥ १३६॥ १. 'छोय' ख. पाठः.
GG