________________
पीठलक्षणम् सप्तविंशोऽध्यायः ।
अ(धः १ घे) क्षेपणमंशौ द्वौ पट्टिकार्धेन चाज्यधृक् । सामान्य नागरादीनां सौम्यं पीठमिदं स्मृतम् ॥ ४५ ॥ एवं द्वादशभेदेन पीठानां लक्ष्म वर्णितम् ।
अथ सामान्यपीठं--- घष्टांशे शिवपीठके क्षितिशराब्धीन्द्वंशकैः पादुकं
प्रादध्याज्जगतीं तथा कुमुदकं तत्पट्टिकां च कमात् । मंशाभ्यां गलमंशकेन गलपट्टि जागतेऽब्ध्यशिनि प्रीवान्तेऽर्धयुतहयेन वलभिं शिष्टेन पट्टि सदा ॥ १६ ॥ चतुर्दशप्रकारेण पीठानीत्यब्रवीन्मयः॥ १७ ॥ वेदतुवसुसूर्यात्रैः षोडशाभं च वर्तुलम् ।
एतेषामायतैः षड्भिस्थ्यश्रं चार्धेन्दुसन्निभम् ॥ १८ ॥ पीठे मुक्त्वा प्रतिष्ठाविधिमुदधिविभागं विधायावशिष्टं
हाम्यामाधाय पाथोवलयमुदकधात्रीं विधायांशकेन । शिष्टेनाधाय तद्वेष्टनमथ तदुद(यः ? क) ज्यशविस्तारदेय
कुर्यादष्टाश्रमाशांशककृतजलकुल्यं कृशाग्रं प्रनालम्॥१९॥ प्राक्प्रत्यङ्मुखबिम्बानां पीठमुत्तरनालकम् । दक्षिणोदङ्मुखानां तु पूर्वनालं प्रकल्पयेत् ।। ५.॥ पीठव्यासत्रिवेदांशं नालमूलस्य विस्तृतम् । मायामं तत्समं तस्मात् त्रिचतुर्भागहापनात् ॥५१॥ फर्यानालाप्रविस्तारं तन्मूलविकृतौ पुनः। मूलादर्धत्रिभागं वा गोमुखाकारमाचरेत् ॥१२॥