________________
शिल्परत्ने
कुण्डिकां पद्मपाशं च वामहस्तद्वयोद्धृतम् । रथस्य मुकुलाधस्ताद् वृषभं श्वेतवर्णकम् ॥ ८९ ॥ अथ कल्याणमूर्तेस्तु लक्षणं सर्वमङ्गलम् । सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ ९० ॥ दक्षिणः पूर्वहस्तस्तु गौरीदक्षिणहस्तधृक् । वरदं वामहस्तं तु परहस्तद्वये तथा ॥ ९१ ॥ दक्षिणे परशुं वामे तथा कृष्णमृगं परम् । जटामकुटसंयुक्तं सर्वाभरणसंयुतम् ॥ ९२ ॥ देहं प्रवालवर्णाभं देवेशस्य विशेषतः । तत्र श्यामनिभा देवी प्राग्वन्मानादिसंयुता ॥ ९३ ॥ उत्पलं वामहस्ते तु धृत्वा दक्षिणहस्तकम् । शम्भोर्हस्तेन संग्राह्यं लज्जाभरसमन्वितम् ॥ ९४ ॥ पार्वतीमनुगा श्रीर्भूः सर्वाभरणभूषिता । हस्ताभ्यां संस्पृशेदेवं गौरीमपि करइये ॥ ९५ ॥
११०
[उत्तरभागः
देवाग्रे कारयेत् कुण्डे तत्र होमं प्रजापतिः । शम्भो स्तनसीमान्तं प्रजेशस्योदयं तथा ॥ ९६ ॥
चतुर्भुजं चतुर्वक्रं सर्वाभरणभूषितम् । प्रागग्री देविदेवेशौ देवी देवस्य दक्षिणे ॥ ९७ ॥ दक्षिणाभिमुखो विष्णुर्होमस्योत्तरदिस्थितः । शम्भो नाभिसीमान्तं श्रेष्ठ स्तनतलोन्नतम् ॥ ९८ ॥ कन्यसं तु तयोर्मध्ये पूर्ववन्नवधा स्मृतम् । श्यामवर्णसमायुक्तं शङ्खचकौ परे करे ॥ ९९ ॥
१. घ. पाठः.