SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ "नानाविशालगणितागमशिल्पशास्त्राद्युत्पत्तिमुख्यभुवमद्भुतविक्रमाढ्याम् । सेतूर्ध्व कानन निवासकृताधिवासां वन्दे astroad परदेवतां मे ॥" (पूर्वभागः पा० १. लो० ४) इत्येतद्घटक' सेतू का नन' पदस्यार्थपर्यालोचनायामस्य श्रीकुमारस्य देशसंज्ञा भाषाव्यपदेशे 'चिरमेकाटु' इति प्रतिभाति । स चायं देशः कोच्चिराज्यान्तर्गते तलप्पळ्ळितालूग्घटिते कस्मिंश्चिदुत्तरस्मिन् भाग इत्यस्मसुहृदां ब्रह्मश्रीकाणिप्पैयूर् शङ्करन्नम्पूरिमहाशयानां मुखतो भाषणाज्ज्ञायते । महामहोपाध्यायब्रह्मश्रीगणपतिशास्त्रिमहाशयैरध्यक्षचरैरस्मद्गुरु चरणैः पूर्वभागनिवेदनायां - २ "उत्तरभागस्तु सर्वादर्शसम्पत्साह्येन संशोध्यानतिचिरेण प्रकाश्येत ।" इति कृतां प्रतिज्ञां सफलयितुकामेन मया तदनुग्रहात् समुपलब्धैरादर्शैः संशोध्य प्रकाश्यमानोऽयमस्तु सतां प्रसादाय । एतत्संशोधनमादशश्चतुरः समाश्रित्य निरवर्त्यत । तत्र प्रथमः -- अनन्तशयनस्थमहाराजग्रन्थशालीयः क-संज्ञः समयः त्रिशतवर्षवृद्धः । द्वितीयः -- तिरुवल्ला कुळिकाहिलं ब्रह्मश्री पि. नारायणभट्टतिरिस्वामिकः ख- संज्ञः मध्ये लुप्तः वर्षशतकानधिकपर्युषितः । तृतीयः कल्कुलं मणलिक्करमठाधिपतिब्रह्मश्री केशवस्वामिकः ग- संज्ञः समग्रो द्विशतवर्षेभ्यः प्राचीनः । तुरीयः -- कुन्नत्तनाटु ओळवूर श्रीमन्नारायणन्नम्पियारस्वामिकः घ- संज्ञः द्वाविंशतेरापश्चविंशं चतुर्भिः, पञ्चत्रिंशेन चाध्यायैः स म्पुटितः द्विशतवर्षपर्युषितः । के. साम्बशिवशास्त्री. अनन्तशयनम्, २४-१२-१०४.}
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy