________________
केलीयेने श्रीकुमारनाम्ना केनचिच्छिल्पविद्याविशारदेन प्राचीनाशस्पागमेभ्य इदं शिल्परनं सङ्कलितम् । यत् स आह -
"ब्राल क्षात्रं च तेजोऽप्यहमहमिकया वर्णिते यत्र वीरे ...' तस्य श्रीदेवनारायणधरणिपतेराजयाज्ञाकरोऽहम् । मन्दोऽप्यत्यन्तमोहादतिविपुलतरेभ्योऽथ पूर्वागमेभ्यः
संक्षित शिल्परमं प्रलिखितुमधुना प्रक्रमे तत्क्रमेण ॥" इति । अत्र श्लोके स्मर्यमाणो देवनारायणधरणिपतिः वञ्चिराज्यान्तर्गतम् अम्बलप्पुलाख्यं नगरं राजधानी कृत्वा कमपि भूभागमशिषत् ! स प्रकृत्या विद्वत्प्रियो नानाविधविद्याभिवर्धनपरो महावैयाकरणस्य महाकवेः प्रक्रियास
स्व-नारायणीयादिग्रन्थकर्तुः श्रीनारायणभट्टस्याश्रयभूतः कैस्ताब्दीयषोडशशतकस्यान्तिमभागे स्थित इति तदाज्ञाकरस्य श्रीकुमारस्य स एव जीवि. तसमयो विज्ञायते ॥ . अनन्तशयनम्, . ) १६-६-१९२२.
त. गणपतिशास्त्री.