SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ निवेंद्रना । इदं शिल्परनं भागद्वयात्मकम् । तत्र पूर्वभागः षट्चत्वारिंशदध्या यात्मकः गृहग्रामादिनिर्माणविधिपरः, उत्तरमागो देवबिम्बलिङ्गादिसम्बद्धविषिपरः पञ्चत्रिंशदध्यायात्मकः । काममत्र भाषा नातीव हृद्यां, न च निरबद्या; प्रमेयं तु शिल्पं महार्घ वितत्य च सम्यक् च प्रतिपादितम् । ग्रन्थश्च शिल्पविषय एयञ्जातीयोऽपूर्वोऽद्यापि न कचित् प्रकाशितः । अस्यैक आदर्शो राजकीय ग्रन्थशालीयः, अपरो मणलिक्करमठसम्बन्धीति द्वावादश तालपत्रात्मकौ केरलीयलिपी लेखकप्रमाद बहुलाबुपलब्धौ एतत्परिशोधनानुकूलस्तृतीयः कश्चिदादर्शश्चिरस्य परिमार्गितोऽपि न लब्धः । तत आदर्शान्तरनैराश्यादुपलब्धादर्शद्वयस्थितपाठानुरोधिनं कमपि संस्कारमा - श्रित्य ग्रन्थं प्रकाशयिष्याम इति तेन पुरातनशिल्पकलाव्युत्पत्त्यर्थं प्रयनं कुर्वतां तदनुकूले दृशग्रन्थदौर्लभ्यमवरतः परिहृतं भविष्यतीति च बुद्ध्यास्य ग्रन्थस्य मुद्रणमस्माभिरुपक्रान्तम् । एतत्पूर्वभागस्य मुद्रणे परिसमाप्ते कोचिराज्यान्तर्गतकुन्नकुलाभिजनः शिल्पविद्याविचक्षणः श्रीमान् काणिप्पैयूरु परमेश्वरनम्बूतिरिमहाशय इह यदृच्छागतः कमपि साधुतरं शिल्परत्नस्यादर्श स्वगृहे स्थितमाह स्म । प्राथितश्च मयासौ स्वीयादर्शस्यात्र प्रेषणं सौकर्यविरहादननुमन्यमानोऽपि सद्तान् पूर्वभागसम्बन्धिनः शुद्धाशुद्धपाठभेदान् भूयिष्ठान् उच्चित्यो चित्य मां सदयं प्राहिणोत् । पाठभेदोच्चयमारब्धमपरिसमाप्यैव लोकान्तरं गते तस्मिन् अस्मत्परमोपकारिण महाशये तस्य प्रियः शिष्यः श्रीयुतः आर. शङ्करवार्यमहाशयः स्वगुरूपक्रान्तं कर्म परिसमापितवान् । इत्थं तावत् काणिप्यूरादशद् ग. संज्ञितात् पाठाः संगृहीताः । अथ चिरक्कल राजभवनादेकः शिल्परत्त्रपूर्वभागस्यादर्श आसादितः; तस्माच घ. संज्ञितात् पाठा उच्चित्य संगृहीताः । त इमे सर्वे ग. घ. संज्ञितयोरादर्शयोः पाठा व्युत्पित्सुपरमोपकारका: पूर्वभागात्मकस्यास्य पुस्तकस्यान्ते योजिताः । उत्तरभागस्तु सर्वादर्श - सम्पत्साहन संशोध्यानतिचिरेण प्रकाश्येत ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy