________________
शिल्परत्ने
(पूर्वभागः पृष्ठगां भित्तिमाश्रित्य मातृणां स्थानमुत्तमम् । शक्तिभागीकृते दीर्धे बाह्याद्याः पदमध्यगाः ॥ ७३ ॥ सिंहयोनिगतं कुर्यान्मन्दिरं तदुदङ्मुखम् । अथवा नाहमानार्थे चतुश्चत्वारिंशदंशिते ॥ ७४ ॥ मष्टाविंशतिभिस्तारं दीर्घ षोडशभिस्तथा । अथवा मण्डपाध्यायसमुक्तं वा समाचरेत् ॥ ७५ ॥
इति शिल्परले परिवारविधानं नाम
द्विचत्वारिंशोऽध्यायः ।
अथ त्रिचत्वारिंशोऽध्यायः।
__ अथ बलिपीठलक्षणम् । गोपुराद् बाह्यतः कुर्याद् बलिपीठं सलक्षणम् । प्रासादार्धाद् बहिः कृत्वा षट्सप्तवसुदण्डकम् ॥ १ ॥ दशकं वा द्वादशकं मनुदण्डमथापि वा। अथ षोडशदण्डं वाप्यष्टादशकमेव वा ॥२॥ अथवान्यप्रकारेण पीठस्थानं विधीयते । त्रिसालके चतुष्पञ्चसालके वा सुरालये ॥ ३ ॥ अग्रायामस्य मध्ये स्याद् बलिपीठं सलक्षणम् । प्रासादमध्याद् बहिरग्रतो गते
तदुत्तरोत्थे सदलद्विसंख्यके । दण्डे त्रिसार्धत्रिशराङ्गसप्तके
स्वधाम्नि कुर्याद् बलिपीठिका तथा ॥ ४ ॥