________________
परिवारविधानम् ]
द्विचत्वारिंशोऽध्यायः ।
शान्तिकादिषु यन्मूलगेहं तत्र तदेव हि । महाप्रासादके मूले परिवारालयं पुनः || ६२ ॥ आभाससदनोक्तेन मार्गेणैव समाचरेत् । गौर्यास्तु मालिकां वाथ विमानं वा प्रकल्पयेत् ॥ ६३ ॥ अन्येषामेव देवानां मण्डपाकृति वा भवेत् । परिवारालये द्वारं कारयेत् पूर्वमुक्तवत् ॥ ६४ ॥ त्रिवर्गमण्डपाकारं चतुर्द्वारसमन्वितम् । उक्षादिवाहनाकारं शेषाणां तु यथोचितम् ॥ ६५ ॥ मूलद्वारसमः श्रेष्ठस्तचिपादं तु मध्यमः । अर्धहीनः कनिष्ठः स्याद् ऋषभो लक्षणान्वितः ॥ ६६ ॥ पादाध्यर्धसमुत्सेधः सपादो हिगुणोऽपि वा । मातृणां कथ्यते सद्म समासेन मयाधुना ॥ ६७ ॥ द्विचत्वारिंशद्धस्तं तु पञ्चभौममथोत्तमम् । त्रिशतं त्रिभौमं तु मध्यमं तदुदाहृतम् ॥ ६८ ॥ एवं विंशतिहस्तं तु कनिष्ठं त्वेकभूमिकम् | प्रासादाद् दक्षिणे कुर्याद् द्विपदे मातृमण्डपम् ॥ ६९ ॥ आयामं द्विपदं कुर्यात पदभागेन विस्तृतम् । भूतांशैर्विभजेत् पश्चाद् गुणैर्भवनमिष्यते ॥ ७० ॥ अलिन्दं तत्र भागाभ्यां शिष्टाभ्यां परिकल्पयेत् । तस्मिन्नेव तु भूतांशैस्तुरीयं विभजेत पुनः ॥ ७१ ॥ अन्तरं तेन मानेन पदद्वन्द्वं समीरितम् । मातृणां गर्भगेहे तु पदभागीकृते पुनः ॥ ७२ ॥
RR
२२५