________________
परिवाराविधानम् ] द्विचत्वारिंशोऽध्यायः ।
२२१ गौरी शर्वस्तथा ब्रह्मा शिवस्तस्माद् भृगुस्तथा । ईशानः काशिकश्चैव एकाक्षो विघ्न एव च ॥ १९ ॥ सरस्वती तथा लक्ष्मीश्चैकरुद्रस्तथैव च ।। पशुपतिर्वसुश्चैव महादेव + + + + ॥ २० ॥ धनदो रुद्रकालाग्नी श्रीकण्ठो नागदेवताः । भीमश्च पृथिवी चैव शिखण्डी च मरुत् तथा ॥ २१ ॥ उग्रश्च + + रश्चैव द्वात्रिंशत्परिवारकाः।। अथवा पृथिवीस्थाने गौरी स्थाप्या तथैव च ॥ २२॥ गौरीस्थाने न्यसेत् पृथ्वीमन्यत् पूर्वोदितक्रमात् । अभ्यन्तराननाः सर्वे स्थापनीया विशेषतः ॥ २३ ॥ कर्णकांशगता देवाः प्राचीपश्चिमसंमुखाः । इन्द्रानलयमाशास्थाः पश्चिमाभिमुखस्थिताः ॥ २४ ॥ पितृवारुणवायुस्थाः कुर्यात् प्रागाननास्तथा । विष्णुश्चेत् प्राङ्मुखः सौम्ये दुर्गा चेद् दक्षिणानना ॥२५॥ मातरः सौम्यवास्तु वीरेशः पश्चिमाननः । मातृवामस्थविनेशो भवेत् प्रागाननस्तथा ॥ २६ ॥ मादौ वा द्वित्रिसाले वा निर्माल्याशीशगोचरे । दक्षिणाभिमुखो वाथ पश्चिमाभिमुखोऽथवा ॥ २७ ॥ मूलगेहात् त्रिदण्डे वाप्यर्धयुक्तत्रिदण्डके ।..... तयोर्मध्येऽष्टधा भक्ते तत्तदंशावसानके ॥ २८ ॥ नवधा वाहनस्थानं तत्पीठावधि कारयेत् । . . बलिपीठाद् वाथ निष्क्रान्तिर्योपुराद्वा यथोचितम् ॥२९॥