________________
शिल्परत्ने .. [पूर्वभागः क्षुद्राभासविकल्पेषु चाष्टौ छन्देऽपि षोडश । . जात्ये भवन्ति द्वात्रिंशत् तत्पक्षे स्थापयेत् क्रमात् ॥ ८॥ कल्पयेदन्तहारायां परिवाराष्टकं पुनः । षोडशं परिवाराणां मध्यहारावधौ भवेत् ॥९॥ प्राकारे तु चतुर्थे तु द्वात्रिंशत्परिवारकः । तत्तत्प्राकारकुड्ये वा सालकुड्याश्रयं तु वा ॥ १० ॥ मुखायामं विना क्षेत्रे चतुरश्रकृते सति। नवभक्ते तु तन्मध्ये कल्पयेन्मूलमन्दिरम् ॥ ११ ॥ प्राच्यां वै वाहनस्थानमनलश्चाग्निगोचरे । मृगो वाप्यनलस्थाने याम्ये वै मातरः स्मृताः ॥ १२ ॥ एकबेरस्तु वा याम्ये नैर्ऋत्यां तु विनायकः । कुमारो वारुणे स्थाप्यो ज्येष्ठा वै वायुगोचरे ॥ १३ ॥ सौम्ये तु केशवस्थानं तत्र कात्यायनी तु वा। भास्करः शाङ्करे देशे परिवाराष्टकं विदम् ॥ १४ ॥ बीजे तु पञ्चपञ्चांशे बाह्ये तत्पूर्वकोष्ठतः। इन्द्रश्चाश्विनिवह्नी च पितरश्च यमस्तथा ॥ १५ ॥ रोहिणी निर्ऋतिश्चैव चाप्सरोगण एव च । वरुणोऽप्यूषयश्चैव वायू रुद्रस्तथैव च ॥ १६ ॥ सोमश्च क्षेत्रपालश्च शङ्करश्च दिवाकरः । एवं षोडश चेत् कार्याः परिवारोत्तमास्त्विह ॥ १७ ॥ चतुर्थसालबीजे तु नन्दनन्दविभाजिते । बाह्यावृतौ गताः पूर्वकोष्ठात प्रादक्षिण्यकमात् ॥ १८ ॥