________________
२१२ शिल्परले
.. (पूर्वभागः त्रयोविंशयवान्तं वा धनं वेद्याः प्रकल्पयेत् । .. तद्वनस्य चतुर्थाशं पञ्चांशं वाधिकं ततम् ॥ ८६ ॥ ज्वालावेधं न कर्तव्यं दीपधामोत्तरस्य हि । तस्माज्ज्वालाबहिर्भागे वान्तरे बोत्तरं न्यसेत् ॥ ८७ ॥ दण्डिकाने बाह्यगतं तद्युक्त्यान्तर्गतं तथा । उत्तरस्य तु विष्कम्भं पादोत्सेधेन वा पुनः ॥ ८८ ॥ पादोनव्यङ्गुलं वाथ सपादत्र्यङ्गुलं तु वा । पादोनाब्ध्यङ्गुलं कुर्यात् सपादचतुरङ्गुलम् ॥ ८९ ॥ एवं योनिप्रभेदेन कल्पयेद् वागुलात्मकम् । दण्डिकाबहलं कुर्यादुत्तरेण समं तथा ॥ ९ ॥ त्रिपादं वाथ वार्ध वा बहलेन समं घनम्। . अर्ध वा पादहीनं वा दण्डिकानां विशेषतः ॥ ९१ ॥ स्वस्तिकं मकरास्यं वा सिंहेभाननमेव वा। दण्डिकाग्रे प्रकर्तव्यं नानाभावसमन्वितम् ॥ ९२ ॥ दण्डिकाद्यन्तरे कार्य भूतसिंहादिमण्डितम् । पुष्पवल्ल्यादियुक्तं वा फलकं नाटकान्वितम् ॥ ९३ ॥ पञ्चसप्ताङ्कविश्वेशतिथिसप्तदशावृतिः । वेदिका स्याद् यथाशोभं परितस्तुल्यान्तरं यथा ॥ ९४ ॥ वेदिकायमध्यं तु सपाददशमात्रतः। पादोनसप्तमात्रान्तमर्धार्धाङ्गुलहीनतः ॥ ९५ ।। कार्य योनिवशादेव नान्यथा शिल्पकोबिदैः। वेदिकादिवशे तस्या घने चोत्तरविस्तृतौ ।। ९६ ।।