________________
पम्पयाकारलक्षणम् ] चत्वारिंशोऽध्यायः । २११
मुक्त्वा मुक्त्वा यथाशोभं यथारुचि समाचरेत् । कोणेषु मण्डपाकारं कारयेच्छिखरं पुनः ॥ ७ ॥ ललाटनासिकाइन्हें कोणे कोणे सलक्षणम् । मुख पृष्ठे च भद्राख्या नासिका च भवेदिह ॥ ७७ ॥ अधिष्ठानोपरिष्टात् तु दण्डिकाचरणं न्यसेत् । बाह्यान्तरावृतिगतं सदृढीकृतदण्डिकम् ।। ७८ ॥ तुल्यान्तरालं तन्मध्ये वेदिकाघ्रिं च विन्यसेत् । दण्डिका बहिः कार्या दी(पि)काद्यङ्गकोपरि ॥ ७९ ॥ पूर्वोक्तवेदिवत् तुझं तस्यां तस्यां प्रविन्यसेत् ।। तुल्यान्तरं वेदिपादान् कोणवर्ज यथा तथा ॥ ८॥ अष्टाङ्गलादिविष्कम्भं कर्तव्यं दण्डिकाधिषु । अथवा भित्तिसंलग्नं विन्यस्येद् वेदिपादकान् ॥ ८१ ॥ वेदिकापनवत् कार्य वेदिकाधिगतं धनम् । तहनत्रिगुणं तारं तच्चतुर्गुणमेव वा ॥ ८२॥ मायक्रोच्चात् तु सप्तांशं नवांशं वा द्विपांशकम् । त्रयोदशांशतिथ्यंशमथ सप्तदशांशकम् ॥ ८३ ॥ धनं वेधा यवैर्वाथ सपादाङ्गुलतः क्रमात् ।। अर्धाङ्गुलविवृद्धया तत्पादोनन्यङ्गुलान्तकम् ॥ ८४ ॥ तत्समां विस्तृति तस्यामथवान्यप्रकारतः। एकादशयवं मुख्यं तस्माद् द्विद्वियवोत्तरम् ॥ ८५ ॥