________________
११८ शिल्परले
[पूर्वमागः उत्तरस्यानुरूपेण तासां तारमुदीरितम्। . तत्समं पादहीनं वा वखंशोनाधिकेन वा ॥ ६॥ .. पादाधिकं वा ववंशत्रितयाधिकमेव च । विस्तारार्धाधिकं वा स्याद् विस्तारं प्रकृतेरिदम् ॥ ७ ॥ प्रकृतिव्याससदृशं तुर्यश्रं कल्पयेद् बुधः। तत्र पूर्वोक्तवत् कार्याः कर्णरेखाः क्रमेण तु ॥ ८॥ विकृतिलुपानां तारं तत्तत्कर्णसमं विदुः। खव्यासान्ध्यंशसहितं लुपामूलविशालकम् ॥९॥ पुच्छाध यत्र संयोज्यं नीप्रपट्टया विचक्षणैः । सार्धाङ्गुलं तु बाहल्यं लुपानां यववृद्धितः ॥ १० ॥ यावदृत्वगुलं तावत् कुर्यादौचित्यभेदतः । स्वस्वधनार्धेष्वेवं पङ्क्तिदलैः संविभज्यवलयस्य । गमनं युक्त्या कुर्यादेकैकांशोनितेन कोट्यादौ ॥११॥ अथवान्यप्रकारेण लुपादीर्घ विदुर्बुधाः ॥ १२ ॥ वंशोच्चेमुत्तरद्यत्तत्स्वेनैव (?) गुणयेद् बुधः । यथायथानि स्थानानि लुपानां वंशलम्बतः ॥ १३ ॥ प्रत्येकं स्वगुणीकृत्य वंशस्योच्चकृतौ युतम् । तन्मूलं तु लुपामानमेवं सर्वत्र कल्पयेत् ॥ १४ ॥ उत्तरानीप्रलम्बं यत् तेन तत्रापि कल्पयेत् । तारार्ध स्वगुणीकृत्य वंशोच्चकृतिसंयुतम् ॥ १५ ॥ चूलिकामध्यगात् कीलाद् यद्यद्रीद्र(?)लुपान्तरम् । तदपि स्वगुणीकृत्य तारार्धोच्चकृतौ युतम् ॥ १६ ॥