________________
१०८ शिल्परने
[पूर्वमागः अधःपट्टं तदेकांशं मध्यपढें त्रिभागतः। . ऊर्ध्वपट्ट तथा द्वाभ्यामेवं वाष्टाश्रमाचरेत् ॥ ९९ ॥ यथा तुल्यत्वमश्राणां तथा वा कारयेत् पुनः। संपूर्णगर्भिणीकोडतुल्यं स्यात् प्रतिबन्धके ॥ १० ॥ सिंहव्यालगजेन्द्रादिमृगै नारसान्वितैः । भूषयेत् प्रस्तरं भूतैर्वलाभं च विभूषयेत् ॥ १०१॥ यत्र प्रासादकरणं तले तत्र समीकृते ।। होमां विन्यस्य परितस्तत्तद्रव्यैर्यथोदितैः ॥ १०२ ॥ भित्तिपादस्य विष्कम्भं द्विगुणं त्रिगुणं तु वा। होमानीप्रमिति ख्यातं तद्वा(होल्यं तदर्धतः ॥ १०३ ॥ मानसूत्राद् बहिनीप्रं द्वित्रिदण्डमथापि वा । होमानीप्रं पुनः प्रोक्तमुपपीठं गलात् तु वा ॥ १०४ ॥ अधिष्ठानजगत्या वा पादुकाद् वा विमानके । होमोघेऽब्जे प्रकर्तव्ये तत्पीठाडोमनिष्क्रमः ॥ १०५ ॥ पद्मस्य वेशरस्योच्चं समं पादोनमेव वा। तदूर्ध्वं वापि चाद्यङ्गं होमोज़ वोपपीठकम् ॥ १०६ ॥ तदूर्वेऽन्जमधिष्ठानं वा करोतु यथारुचि ।
__ अथ समभूकरणसाधनावनतलक्षणम् । अथ कुर्यादवनतं पट्टिकाभिस्त्रिभिः पुनः ॥ १०७ ॥ साङ्गलीकरमानाभिस्त्र्यश्रं सम्बन्ध्य निश्चलम् । वापी कुर्याजलैः पूर्णा तस्यां शङ्कद्वयं न्यसेत् ॥ १०८ ॥