SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कुमुदकरणम्] एकोनविंशोऽध्यायः । एकेन कर्णमंशाभ्यां सवलभ्युत्तरं त्रिभिः। कपोतं चतुरंशेन श्रीबन्धे प्रस्तरोच्छ्रयम् ॥ ८८ ॥ अष्टादशकृतोत्सेधे पूर्वोक्तक्रममाचरेत् । नाम्ना कपोतबन्धं तत् प्रस्तरेण विना कृतम् ॥ ८९ ॥ तुङ्गेऽप्येकोनविंशांशे द्वाभ्यां पादुकमाशुगैः। जगती च चतुर्भागैः कुमुदं पट्टमंशतः ॥ ९० ॥ अंशाभ्यां कर्णमर्धाशेनोत्तरं वलभिं भुवा । सार्धामिभिः कपोतोचं कुर्यात् कलशबन्धके ॥ ९१ ॥ त्रयोविंशत्कृतोत्सेधे सार्धयंशेन पादुकम् । . वेदेवप्रं कैरवं तु त्रिभिरेकेन तद्गलम् ॥ ९२ ॥ भूम्यंशेनोत्तरं सार्धभागेन वलमि तथा । कपोतं गुणभागेन प्रस्तरं चतुरंशकैः ।। ९३ ॥ नागबन्धमिदं नाम्ना कारयेत् सर्वधामसु । पादबन्धेऽपि दृश्यन्ते (?) श्रीबन्धादिचतुष्टयम् ॥ ९४ ॥ अथ क्षुद्रसभादीनामाद्यङ्गोच्चे त्रिभाजिते । पीठमंशेन पद्मं च कर्णिकामंशतोऽशतः ॥ ९५ ॥ अथवा भित्तिवत् कुर्यादुपानाद्यङ्गवर्जितम् । सप्ताष्टनवभिभक्ते मासुरोचेंऽशतः खुरम् ॥ ९६ ॥ क्रमाद् वेदशशाङ्कादिभागैः कर्णसमुन्नतिः। वलभ्युत्तरमंशेन प्रस्तरोच्चं तु तत्समम् ।। ९७ ॥ कपोतं वा प्रतिस्थाने कुर्यादेतेऽपि मञ्चकाः । . . अथ कुमुदकरणम् । कुमुदोच्चे षडंशे तु पादबन्धतले पुनः ॥ ९८ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy