________________
किंपद इ.]
शक्तिवादः। "किमिन्दुः किं पद्मम्" इत्यादौ चाऽव्ययकिमो वाशब्दस्येव वितकार्थः । वितर्कश्च प्रयोक्तुः संभावनात्मकं ज्ञानं तदर्थस्य च विशेष्यतासंबन्धेन प्रथमान्तएदोपस्थाप्ये विशेष्ये. प्रकारितासंबन्धेन च तत्र विशेषणस्य चन्द्रादेरन्वयः--नामाथेनाऽव्ययार्थस्य भेदान्वयेऽविरोधात् ।
यत्र विशेषणवाचकपदमपि प्रथमान्तं तत्राभेदसंबन्धावच्छिन्नप्रकारिता संसर्गः, यत्र च प्रकृत्यर्थविशेष्यतया स्वार्थबोधकविभक्त्यन्तं पदं तत्र किंपदासत्त्वे ताहशविभक्त्यन्तसमुदायार्थस्य विशेष्ये याशसंबन्धनान्वयस्तादृशसंसर्गावच्छिन्नप्रकारितैव तादृशार्थस्य किंपदार्थे संसर्गोऽतः 'किमिन्दुः' इत्यादाकऽभेदेन चन्द्रा"भवान् कस्य पुत्रः' इत्यत्रापि किंपदस्य मनुष्यत्वाद्यपेक्षया न्यूनवृत्तिचैत्रत्वाद्यवच्छिने शक्तिरस्ति तस्य चैत्रस्य निरूपितत्वसंबन्धेन विधेयतावच्छेदके पट्यर्थ जन्यत्वे जन्यत्वस्य चाश्रयतासंबन्धन पुत्रेऽन्त्रयो भवतीत्येतादृशप्रश्नानन्तरम् 'अहं चैत्रस्य पुत्रः' इत्याधुत्तरं प्रयुज्यते इत्यर्थः ।
अव्ययकिंपदस्थार्थमाह-किमिन्दुरित्यादिना । संभावना चाकर्मिकविरुद्धानेककोटयवगा. हिसंशयरूपा विज्ञेया । 'मुख किमिन्दुः' इत्यादौ तदर्थस्य-किंपदार्थस्य संभावनाया विशेष्यता-- संबन्धन प्रथमान्तपदोपस्थाप्ये विशेष्यभूते मुखेऽन्वयो भवति--मुख विशेष्यतायाः सत्त्वात्, तत्रकिंपदार्थसम्भावनायां च प्रकारितासम्बन्धेन विशेषणीभूतचन्द्रादेरन्वयोस्ति-चन्द्रादिनिष्ठप्रकारतानिरूपितप्रकारितायाः सम्भावनायां सत्त्वादिति चन्द्रादिप्रकारकसम्भावनाविशेष्यतया मुखादेबोधो जायते । ननु नामार्थेन मुखेन नामार्थस्योक्तवितर्कस्य कथं विशेष्यताख्यभेदसंबन्धेनान्वयः स्यात् ? नामार्थयोरमेदान्वयस्यैवेष्टत्वादित्याशङ्कयाह-नामार्थेनेति, नामार्थेनाऽव्ययार्थस्य भेदान्वयेपि विरोधो नास्ति-अव्ययातिरिक्तनामार्थयोरेव भेदान्वये विरोधात्. अत्र च किंपदमव्ययमेवेति तदर्थस्य मुखे भेदसंबन्धेनाप्यन्वये न कोपि विरोध इत्यर्थः । एवमेवात्र किंपदार्थेन चन्द्रादेरयुक्तभेदसम्बन्धेनान्वये विरोधामावो विज्ञेयः ।।
उक्तव्यवस्था द्विधा विभजते-यत्रेति, यत्र="मुख किमिन्दुः" इत्यादी विशेषणवाचकमिन्द्रादिपदमपि प्रथमान्तं भवति तत्रोक्तप्रकारिता ह्यभेदसंबन्धावच्छिन्नैव संसो भवति--अत्र किंपदाभावे "मुखमिन्दुः' इत्यादावभेदसम्बन्धेनैवेन्दोविशेष्ये मुखेऽन्वयसम्भवात् तथा चात्राइभेदसम्बन्धा. वच्छिन्नप्रकारितासम्बन्धेनेन्दोः सम्भावनायां तादृशसम्भावनायाश्च विशेष्यतासम्बन्धेन मुखेऽन्वयो भवतीत्यऽभेदेन चन्द्रादिप्रकारिका सम्भावना नियमेन प्रतीयते । यत्र चेति-'धनमिदं किं चैत्रस्य' इत्यत्र प्रकृत्यर्थचैत्रनिरूपितविशेष्यता षष्ठ्यर्थस्यत्वेस्ति- चैत्रस्य स्वनिरूपितत्यसम्बन्धेन तादृशस्खत्वेऽन्वयादिति प्रकृत्यर्थविशेष्यतया स्वार्थबोधिका या षष्ठी विभक्तिस्तादृशविभक्त्यन्तं चैत्रस्येतिपदमत्रास्तीत्यत्र किंपदासत्त्वे 'धनमिदं चैत्रस्य' इत्येवमुक्ते तादृशविभक्त्यन्तसमुदायाथेस्य चैत्रस्वत्वस्य विशेष्ये धने यादृशसंबन्धेन=आश्रयतासम्बन्धेनान्वयो भवति तत्र किंपदसत्त्वे 'धनमिदं कि चैत्रस्य' इत्यत्र तादृशसंसर्गावच्छिन्नैव-आश्रयत्वसम्बन्धावच्छिन्नैव प्रकारिता ताहशार्थस्य चैत्रस्वत्वस्य किंपदार्थे सम्भावनायां संसो भवतीत्याश्रयत्वसंबन्धावच्छिन्नप्रकारितासं