________________
( १५८ )
सादर्श:
[ विशेषकाण्डे --
स्तदवच्छिन्ने शक्तिरिति 'अयं कः' इत्यादाविदन्त्वायवच्छिन्नांशे विधेयतावच्छेदकत्वेन जिज्ञासितधर्मवानित्याकारको बोधस्तेन तद्विषयक जिज्ञासाविषयीभूतज्ञानजनकं च 'अयं ब्राह्मणः' इत्याद्युत्तरवाक्यं तादृशमश्नानन्तरं प्रयुज्यते ।
एवं यत्र विधेये विधेयतावच्छेदके वा किपदार्थस्याऽभेदेन भेदेन वाऽन्वयः 'इदं कि द्रव्यम्' 'इदं कस्य धनम्' 'भवतः पुत्राः कति' 'भवान् कस्य पुत्रः ' इत्यादौ तत्र रीतिः पूर्ववदूहनीया ।
* अयं कः" इत्यादिस्यले इदन्त्वायवच्छिन्नांशे = पुरोवर्तिव्यक्तौ विधेयतावच्छेदकत्वेन जिज्ञासितो यो ब्राह्मणत्वादिधर्मस्तद्वान् इत्याकारको बोधो जायते इति तद्विषयक जिज्ञासाविषयीभूतम् = उक्तबोविषयक जिज्ञासाविषयीभूतं यज्ज्ञानं तादृशज्ञानजनकम् 'अयं ब्राह्मणः' इत्याद्युत्तरवाक्यं तादृशप्रश्नानन्तरम् = 'अयं कः' इत्याकारकप्रश्नानन्तरं प्रयुज्यते इत्यन्वयः । यादृशधर्मावच्छिन्नमुद्दिश्य जिज्ञासा क्रियते तादृशधर्मापेक्षया न्यूनवृत्तिधर्मावच्छिन्ने विधेयवाचकपिदस्य शक्तिर्ज्ञेया यथात्र पुरोवर्तित्वधर्मावच्छिन्नमुद्दिश्य जिज्ञासास्तीति पुरोवर्तित्वधर्मापेक्षया न्यूनवृत्तिर्यो धर्मो ब्राह्मणत्वादिः तदवच्छिन्ने शक्तिरितिसारः ।
किं पदस्य व्युत्पत्त्यन्तरमाह - एवमिति । पूर्ववदिति - 'इदं किं द्रव्यम्' इत्यत्र विधेये द्रव्ये कि पदार्थस्याऽभेदेनान्वयोस्तीति यथा 'को ब्राह्मणः पचति' इत्युक्तस्थले ब्राह्मणत्वापेक्षया न्यूनवृत्ति यत्रत्वादिकं तदवच्छिन्ने विपदस्य शक्तिरुका तथा 'इदं कि क्रयम्' इत्यत्र विधेयतावच्छेदकं यदू द्रव्यलं तदपेक्षया न्यूनवृत्तिर्यो धर्मो जलवादिकं तदवच्छिन्ने किंवदस्य शक्तिरस्तीत्येतादृशप्रस्नानन्तरमुक्तन्यून वृत्तिधर्मावच्छिन्नज्ञानजनकम् 'इदं जलद्रव्यम्' इत्याद्युत्तरं प्रयुज्यते । " इदं कस्य धनम्' इत्यत्र विधेये धने किंपदार्थस्य स्वत्वलक्षणभेद संबन्धेनान्ययोस्तीति यथा कस्य देवस्य पूजां करोति' इत्यत्र देवत्वापेक्षया न्यूनवृत्तिरित्यादिधर्मावच्छिन्ने पिदस्य शक्तिः संभति तथा 'इदं कस्य धनम्' इत्यत्र जिज्ञासितत्वापेक्षया न्यूनवृत्ति चैत्रत्वाद्यवच्छिन्ने किंपदस्य शक्तिरस्तीत्येतादृशप्रश्नानन्तरम् 'इदं चैत्रस्य धनम्' इत्याद्युत्तरं प्रयुज्यते, अत्र 'इदं कस्य पुरुषस्य वनम्' इत्येवं पाठे तु पुरुषत्वापेक्षया न्यूनवृत्ति चैत्रत्त्रायवच्छिन्ने शक्तिरित्येवं स्पष्टं स्यात् । 'भवतः पुत्राः कति' इत्यत्र पुत्रनिष्ठ विधेयतावच्छेद की भूत संख्यायां किंपदार्थस्याऽमेदेनान्ययोस्तीति यथा 'कति घटाः सन्ति' इत्युक्तस्थले संख्यात्वन्यून वृत्तिद्वित्वत्वादिधर्मावच्छिन्ने कंपदस्य शक्तिरस्ति तथा 'भवतः पुत्राः कति' इत्यत्रापि पुत्रनिष्टविधेयतावच्छेदकता इतिप्रत्ययार्थभूतायां संख्यायामस्तीति संख्यात्वन्यूनवृत्तिधर्मावच्छिन्ने किंवदस्य शक्तिरस्तीत्येतादृशप्रश्नानन्तरम् 'मे त्रयः पुत्राः सन्ति' इत्याद्युत्तरं प्रयुज्यते । 'भवान् कस्य पुत्रः' इत्यत्र विधेयः पुत्रो विधेयतावच्छेदकं च श्रयर्थभूतं जन्यत्वं तादृशजन्यत्वे किंपदार्थस्य निरूपितवलक्षणभेद संबन्धेनान्वयोस्तीति यथा “कस्य पुत्रः सुन्दरः' इत्यत्र मनुष्यत्वाद्यपेक्षया न्यूनवृत्तिचेत्रत्वावच्छिन्ने किंपदस्य शक्तिस्तथा