________________
* Prasad Manjari *
वास्तुशान्तिचतुर्दशमुहूर्त भूम्यार भे तथा कर्मे शिलायां सूत्रपातने । खुरेद्वारोछ्ये स्तंभे पट्टे पद्मशिलामु च ॥२८॥ शुकनासे च पुरुषे घंटायां कलशे तथा । ध्वजोच्छाये च कुर्वीत शान्तिकानि चतुर्दश ॥२९॥
प्रासादप्रमाणस्थान
एक हस्तादि प्रासादे यावद् हस्त शताधके । प्रमाणं कुंभके मूलनासिके भित्तिबाबत; ॥३०॥
भ्रमयुक्तसांधारप्रासादप्रमाण
दशहस्तादोंनस्यात् मासादो भ्रम संयुतः । स्यादेकादिरसग्नंत निरंधारो भ्रमं विना ॥३१॥
पंचहस्तादितोमेरु: श्यात्पंचाशत्करावधिः । कुंभादि स्थराणां तु निगमः समसूत्रतः ॥३२॥ पीठस्य निर्गमो बाये कर्तव्यश्छायकस्य च ।
समदलहस्तांगुलफालना त्रिपंचसक्षनवभिः फालनाभिविभाजयेत् ॥३३॥ प्रासादमङ्ग संख्या च वारि मार्गान्तरे स्थिताः ।
फालना कर्ण तुल्यास्याद् भद्रंतु द्विगुणंमतम् ॥३४॥ 3. षद् त्रिंशतम् in B. 1. पंचहस्सोमवेत्मेरु in B.