________________
( १ )
एवास्तित्वं ख्याप्यते । तद्यथा । यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति ॥ ' वैधम्र्येणापि । यत्र साध्याभावे तोरभाव एव कथ्यते । तद्यथा । यन्नित्यं तदकुतकं दृष्टं ४ यथाकाशमिति । नित्यशब्देनात्रानित्यत्वस्याभाव उच्यते । अकृतशब्देनापि कृतकत्वस्याभावः । यथा भावाभावोऽभाव इति ॥ उक्ताः पक्षादयः ॥
एषां वचनानि परप्रत्यायनकाले साधनम् । ८ तद्यथा । अनित्यः शब्द इति पक्षवचनम् । कृतकत्वादिति पक्षधर्मवचनम् । यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम् । यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम् ॥ एतान्येव त्रयोऽवयवा १२ इत्युच्यन्ते ॥
साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः । तद्यथा । प्रत्यक्षविरुद्धः १, अनुमानविरुद्धः २, आगमविरुद्धः ३, लोकविरुद्धः, ४, स्ववचनविरुद्धः ५, अप्रसिद्ध विशेषणः १६ ६, अप्रसिद्धविशेष्यः ७, अप्रसिद्धोभयः ८, प्रसिद्धसंबन्धश्चेति ९ ॥ तंत्र प्रत्यक्षविरुद्धो यथा । अश्रावणः शब्द इति ॥ अनुमानविरुद्धो यथा । नित्यो घट इति ॥ आगमविरुद्धो यथा । वैशेषिकस्य नित्यः शब्द इति २० साधयतः || 'लोकविरुद्धो यथा । शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवदिति ॥ स्ववचनविरुद्धो यथा । माता मे वन्ध्येति । अप्रसिद्ध विशेषणो यथा बौद्धस्व