________________
न्यायप्रवेशकसूत्रम्
साधनं दृषणं चैव साभासं परसंविदे।
प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥-इति शास्त्रार्थसंग्रहः ॥ ४ तंत्र पक्षादिवचनानि साधनम् । पक्षहेतुदृष्टान्तवचनैर्हि पाश्निकानामप्रतीतोऽर्थः प्रतिपाद्यत इति ॥ तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषेण विशिष्टतया स्वयं साध्यत्वेनेप्सितः । प्रत्यक्षद्यविरुद्ध इति वाक्यशेषः । ८ तद्यथा । नित्यः शब्दोऽनित्यो वेति ॥ हेतुस्रिरूपः । किं पुनस्रूप्यम् । पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमिति ॥ कः पुनः सपक्षः । को वा विपक्ष इति ॥ साध्यधर्म
सामान्येन समानोऽर्थः सपक्षः । तद्यथा । अनित्ये शब्दे १२ साध्ये घटादिरनित्यः सपक्षः ॥ विपक्षो यत्र साध्यं
नास्ति। यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति । तत्र कृतकत्वं प्रयत्नानन्तरीयकत्वं वा सपक्ष एवास्ति विपक्षे नास्त्येव ।
इत्यनित्यादौ हेतुः ॥ दृष्टान्तो विविधः। साधम्र्येण वैध१६ म्र्येण च ॥ तंत्र साधम्र्येण तावत् । यत्र हेतोः सपक्ष