________________
मानतुङ्ग
मूलम्-मधुच्छविलघुः स्वच्छः, प्रभाभरविभूषितः ॥ सूक्ष्ममेचक रेखाभि नानारूपधरः किल ॥३४ शास्त्र || मूलम्-किञ्चिद् वृत्तस्तुसुस्निग्धो, हनुमान् मणिरुच्यते ॥ भूतप्रेतपिशाचादि । दुष्टदोष विघातकः ॥३५॥
(युग्मम्) टीका-हनुमन्नाममणि विशेषस्य लक्षणमतिशयमाह मध्वित्यादिना-तत्रयोमणिः मधुच्छविर्मधुकान्ति विशिष्टः, लघुर्लाघवयुक्तः स्वच्छो निर्मलः, प्रभाभर विभूषितः प्रभासमूहेनालङ्कतः, सूक्ष्ममेचकरेखाभिर्नानारूपधरः-सूक्ष्माभिः कृष्णनीलाभिश्च रेखाभिरनेकरूपधारकः, किलेति प्रसिद्धौ, किञ्चिवृत्तः इषद्वर्तलाकार:तु तथा सुस्निग्धोऽतिशयेन स्नेहगुणविशिष्टोऽस्ति, स हनुमान मणिरुच्यते, अयं मणिभूतप्रेतपिशाचादि दुष्टदोष विघातक:-भूतप्रेतपिशाचादीनां ये दुष्टादोषास्तेषां विनाशकोऽस्ति ।। ३४ ॥ ३५ ॥
___भाषा टीका-वहाँपर जो मणि मधुकी कान्तिवाली, लघु, स्वच्छ, प्रभासमूहसे सुशोभित, सूक्ष्म और कृष्णनील रेखाओंसे अनेकरूपोंको रखनेवाली, कुछ गोल तथा अत्यन्त चिकनी है उसे "हनुमानमणि" कहते है, यह मणि भूतप्रेत और पिशाच आदिके दुष्टदोषोंका नाश करती है ॥ ३४ ॥ ३५॥
१ अगुरुइत्यर्थः ॥ २ भरोऽतिशयः ॥ ३ मेचकाकष्णनीलःस्यादतसीपुष्यसन्निमः इतिशद्वार्णवे ॥ किलशब्दस्तु वार्तायां सम्भाब्यातुन| यार्थयोः इतिविश्वः ।।