________________
मानतुङ्गा
टीका-इंसगतनाम्नो मणेर्लक्षणमतिशयञ्च द्योतयितुमाह सुवृत्तइत्यादि तत्र यो मणिःसुवृत्तःसुवतु । लोजस्त, सुष्टुगोलाकारोऽस्तीत्यर्थः, सलघुर्लाघवधर्मसहितोऽस्ति, स्निग्धः स्नेहगुणविशिष्टोऽस्ति, अरुक्षोऽस्तीतिशास्त्र
यावत्, तस्य मध्ये मध्यभागे परोत्कृष्टा वज्रच्छविहीरककान्तिरस्ति, वाद्ये बहिभागे ब्रह्मविन्दुप्रभाः ब्रह्मविन्दुप्रभया विशिष्ठः, क्वचित् कस्मिंश्चित्पदेशे सजलाननिभः सजलमेघतुल्योऽस्ति, श्यामवर्णोऽस्तीत्यर्थ:देदीप्यमान सद्राजहंसगर्भविराजित:-देदिप्यमानः प्रकाशमान:, शोभमान इत्यर्थः यः सद्राजहंसः श्रेष्ठराजहंस स्तेन गर्भ मध्यभागे विराजितः शोभितोऽस्ति, यदा देदीप्यमानेन सद्राजहंसेन गर्भो मध्यभागो विराजितो यस्य स इति योध्यम्, यद्वा देदीप्यमानः सद्राजहंसो गर्भ विराजितो यस्य स इति विज्ञेयम्, तथा तन्मध्ये तन्मध्यवर्तिनि प्रदेशे य आवर्तोऽस्ति स किश्चिद्यथास्यात्तथा प्रभाभरविभूषितः-प्रभासमूहेनॉलङ्कतोस्तिस मणिहंसगत इतिख्यातः "हंसगतः" इतिनाम्ना प्रसिद्धोऽस्ति, इदानीं तस्य प्रभावमुपलक्षयति समस्तेत्या, दिना स हंसगतमणिः समस्तविषमर्दकः समस्तानां विषाणां प्रभावस्थ नाशकोऽस्ति, च तथा पूजितोऽचिंतः
१ भावप्रधानो निर्देशस्तेन लधुशद्वेन लाघवं परिगृह्यते ॥ २ वज्रोऽस्त्री होरकेपवौ इत्यमरः ॥ ३ वेदपाठे मुखानिर्गत जलकणा ब्रह्मविन्दव उच्यन्ते "पाठे विप्रुषोब्रह्मविन्दवः" इत्यमरः ॥ १ संश्चासौ राजहंसश्चेति सदाजहंसाः, देदीप्यमानश्चासौ सदाजईसश्चेति देदीप्यमानसदाजहंसः, | तेन गर्भ मध्यभागे विराजितःशोभितः ॥ ५ हंसानांराजा राजहंसाः, राजदन्तादिषु पाठात् परनिपातः अपंश्चदेहेन शुक्रः चंचुचरणैलोहितश्च भवति । ६ ईषदित्यर्थः ॥ ७ आतिशयो भरः इत्यमरः ॥ ८ स्थावरजङ्गम बिषाणामित्ययः ॥ १ च: समुच्चये ॥