________________
मानतुङ्ग
शास्त्रं
__टीका-मणिराजाख्यमणेः स्वरूपमुपलक्षयति य इत्यादिना यो मणिर्वारिबुब्दुवसंकाशो जलफेन । तुल्योऽस्ति, वज्रकान्तिहारकद्युतिविशिष्टोऽस्ति, नभोमयः आकाशयुक्तोऽस्ति, यद्वाऽऽकाशवर्ण विशिष्टोऽस्ति, परं परन्तु मध्ये मध्यभागे तथाऽधोभागेऽपि बालादित्यसुमण्डलो बालसूर्यमण्डलवत्सुमण्डलेन विशिष्टोस्ति, च तथा तन्मध्ये बालादित्य सुमण्डलमध्ये अष्टमीचन्द्ररेखायोतितमण्डल:-अष्टम्याश्चन्द्रस्य या रेखा तया घोसितं मण्डलंयस्य स तथा, अष्टमीचन्द्ररेखा विराजितमण्डलविशिष्टोऽस्तीत्यर्थः, तथा मङ्गलादिग्रहोपेतः-मङ्गलादिग्रहयुक्तोऽस्ति, ननु सूर्यादिक्रममाश्रित्य ग्रहोक्तिहश्यते तत्किमत्र व्युत्क्रमोपन्यास इतिचेदुच्यते-नात्रसूर्यादि ग्रहस्थितिमात्रमेवोपवर्ण्यतेऽपितुयेन क्रमेण तत्र ग्रहाणामवस्थानविद्यते तदर्शनार्थमुत्क्रमोपन्यास कृत इति विज्ञेयम्, तद्यथा पूर्वोक्त मणौ प्रथमं मङ्गलग्रहावस्थानम्, तदनन्तरं बुधस्य,एवं क्रमशः सर्वग्रहावस्थानं विज्ञेयम्, इति नात्रोत्क्रमोपन्यासे कश्चिद्दोषः, समणिमणिराजः प्रकीर्तितो मणिराजनाम्ना कथितोऽस्ति ॥ २५ ॥ २६ ॥
भाषा टीका-वहाँपर जो मणि जलके फेनके समान है, हीरेकी कान्तिके समान कान्तिसे युक्त है, आकाशके समान वर्ण विशिष्ट है, परंतु मध्यभाग और अधोभाग मे बालसूर्य के मण्डलके समान मण्डलसे
१ मध्यभागे सावकाश इत्यर्थः ॥२ च शब्दः समुच्चये ३ ॥ तद्यथाग्रहो निग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सहिकेयो |परागमोः इतिविश्वः॥