SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ काश्यपशिल्पेऽष्टाविंशः पटलः । कलान्सयुगभूम्यादिग्रीवे च प्रस्तरान्तके । इष्टमर्तिमवि(रि)ष्टांशे कल्पयेत्कल्पवित्तमः ॥ १५॥ गलस्यादिस्थमञ्चोर्चे कोणेषु वृषभं कुरु । कोणं प्रति द्वयं वैकं वृषभं शयनं कुरु ॥ ६६ ॥ भूतं वाम चतुष्कोणे हृदयाञ्जलिसंयुतम् । कल्पयेत्यापीठे वे आसीनं तु बृहत्तनुम् ।। ६७ ॥ आमोदं चाग्निकोणे तु प्रमोदं नैर्ऋते भवेत् । प्रमुखं वायुकोणे तु दुर्मुखीशानकोणके ॥ ६८ ।। श्वेतं रक्तं तथा पीतं कृष्णमन्यादिषु क्रमात् ।। यमो वै देवता ह्येषा(ता)तासामावाहनं कुरु ॥६९ ॥ करालमुद्गगुल्मासु ककर्षि कणलेपनम् । नानालंकारसंयुक्तं नानालीलासमायुतम् ।। ७० ।। नानाक्रीडसमायुक्तं सुधया धातुभिस्तथा । यथोचितं कल्पयेत्तु शूलादाविष्टका भवेत् ।। ७१ ।। एवं तलमिदं ख्यातं द्वितलं तु ततो विदुः ।। ७२ ॥ इति काश्यपशिल्प एकालविमानलक्षणं सतविंशः पटलः । अथाष्टाविंशः पटलः । द्वितलम् । अथ वक्ष्ये विशेषेण द्वितलस्य तु लक्षणम् । प्रासादमानवस्कुर्याद्विस्तारोच्चं च निर्गमः ॥ १॥ विन्याससूत्रयोरन्तासं सप्त वा भवेत् । एकांश कूटविस्तारं कोष्ठं तु द्विगुणायतम् ।। २॥ कटव्याससमं कोठं विस्तारं द्विजसत्तम । शेष हारान्तरं कोष्ठं पाईयोस्तु सपञ्जरम् ॥ ३ ॥ हारान्तरमशेषं वा त्रिपादं वाऽर्ध एव वा । पञ्जरण्यासमाख्यातं कूटबाह्यसमोगतिम् ॥ ४॥
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy