________________
चकारेत्यवगम्यते । तत्राभ्यासापाटवावस्थायां या प्राणिसृष्टिः सृष्टा सा न समीचीना । यतः प्रथमत एवानुष्ठितं किंचिदसमीचीनमिव भवति । सा च सृष्टिः गण्डूपदादिवानरपर्यन्ता शिल्पशास्त्रार्थज्ञानानुष्ठानाक्षमेति मे मतिः । कथमन्यथा तां सृष्टिं तिर्यगिति व्यवहरेयुलॊका विचारशीलाः । एवं क्रमेणेयं सृष्टिरुत्क्रान्ता । तदुत्तरं च तत्तच्छिल्पविशेषप्रयोगपटीयसी मनुष्यप्राणिसृष्टिरित्यर्थाद्वानरसृष्टयुत्तरभावित्वं मनुष्यसृष्टेर्वदन्ति । अत एव वानरजातीयेषु नरसादृश्यं दरीदृश्यमानमुपपद्यते । वानरशब्दोऽपि अमुमेवार्थमभिधत्ते । तत्र नरशब्दो मनुष्यवाची । वाशब्दश्च सादृश्यार्थकः । नर इव वानरः । तथा च मनुष्येषु यादृशो हस्तपादाद्यवयव. रचनाकारो दृश्यते तादृश आकारो यत्र स वानरशब्दभाक् । स च वानरो मनुष्यत्वावस्थायाः पूर्वावस्थेति च वदन्ति । अत्र युक्तायुक्तं त एव जानन्ति ।
मनुष्यप्राणिजातिषु मुख्यतश्चत्वारो भेदाः श्रूयन्ते ब्राह्मणक्षत्रियवैश्यशूद्रा इति । तत्र ब्राह्मणाख्यवर्णेन वेदशास्त्राध्यापनादिकोपजीविकानिर्वाहकत्वेनोरीकृतम् । क्षत्रियैः शौर्यादिना दुष्टनिग्रहसष्टनुग्रहरूपपृथ्वीपरिपालनादि । वैश्यः क्रयविक्रयादि कर्म । शूद्रैः पूर्वोक्तवर्णत्रयशुश्रूषा कारुकर्म च जीविकासाधनत्वेनाङ्गीकृतम् । तदुक्तं भगवद्गीतायाम्----
चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः, इति । तत्र यैः कारुकोपजीविकासाधनत्वेन परिगृहीतं ते शिल्पिन इत्युच्यन्ते । ते च शिल्पानामनेकविधत्वादनेकविधाः । तत्र केचित्तत्तच्छिल्पविशेषस्य नियतमङ्गीकरणात्स्थपतिसुवर्णकारकुलालकुविन्दादितत्तज्जातीयत्वेन व्यवह्रियन्ते । तेषां केषांचिल्लक्षणमुत्पत्तिश्च यथा श्रूयते
वास्तुविद्याविधानज्ञो लघुहस्तो नितश्रमः ।
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ इति । स्थपतिर्मुख्यतक्षा । तथा
विश्वकर्मा च शूद्रायां वीर्याधानं चकार सः । ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्मकारः शङ्खकारः कुविन्दकः ।