________________
काश्यपशिल्पेऽष्टाविंशः पटलः ।
नानालंकारसंयुक्तं चतुष्कूटमिदं परम् । तदेव कूटकोष्ठं च नान्तरप्रस्तरं परम् ॥ ३२ ॥ कूटकोष्ठादिसर्वाङ्गं समसूत्रमथापिका । मन्त्रपूतमिति ख्यातं विमानं सर्वकामिकम् ॥ ३३ ॥ तदेव शिखरं कण्ठवृत्ताभं परिकल्पयेत् । नात्र(म्ना) कान्तमिति ख्यातं सर्वदेवाहकं गृहम् ।। ३४ ॥ तदेव कर्णकण्ठानां शीर्षकं च गलं तथा । वृत्ताकारं प्रकतव्यं यत्तदीश्वरकान्तकम् ॥ ३५ ॥ दशभूभागमाख्यातं ततस्त्वेकादशातलम् ।। ३६ ॥ इति काश्यपशिल्पे दशभूमिविधानं सप्तत्रिंशः पटलः ।
अथाष्टात्रिंशः पटलः ।
रुद्रभूमिः ।
अथ वक्ष्ये विशेषेण रुद्रभूमिविधानकम् । मासादमानविधिना संग्रहेत्तु ततोदयम् ॥१॥ तिथ्यंशं विभजेत्तारं गुणांशं गर्भगेहकम् । पक्षांशा गृहषिण्डी स्यादलिन्द्रं त्वेकभागया ॥ २ ॥ एकांशं कुड्यविस्तारमलिन्द्रं तु शिवांयकम् ।। हारान्तरमशिन कल्पयेत्तु यथाक्रमम् ॥ ३ ॥ अलिन्द्रं वा घना भित्तिस्थापि वा । (१) प्रस्तरान्तं घनं वाऽपि तदूर्वऽलिन्द्रमेव वा ॥४॥ विन्याससूत्र योरन्तदासः १क्षांशभाजिते । शिवांशं कर्णकूटं स्यात्पक्षशाला द्विभागया ॥ ५ ॥ मध्यशालाऽग्निभागा स्याद(शं म(प)ञ्जरं भवेत् । हारान्तरं च ततुल्य कल्प्येवं ह्यादिभूतले ॥ ६ ॥ तदूश्वभूविशालं तु मनुभागविभाजिते । शिवांशं कूटविस्तारं कोठं तद्दिगुणायतम् ॥ ७ ॥