________________
काश्यपशिल्पे त्रिंशः पटलः ।
गुणांशं मञ्चमानं तु ऊर्यपादं तु तदद्वतम् । त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपञ्चकम् ॥ १८ ॥ परतरोच्चं त्रिभागैकं शिवांशं वेदिकोदयम् । ... विभागं गलमानं तु भूतांशं शिखरोदयम् ॥ १९ ।। सार्धाशं स्तूपिमानं तु जयदं तदुदाहृतम् । . " : उपानादिस्तूपिपयन्तं पञ्चांशं विभजेधः ।। २० ॥ तथोच्चं सार्धाश्न्यं (ग्न्यशं) स्यात्सप्तांशं चरणोदयम् । तलोच्चसदृशं मञ्चं तस्य(लि) साधप ट्रककम् ।। २१ ॥ पादाधिकत्रिभागेन मञ्चमानमुदाहृतम् । पादाच्च रसभागेन गुणा प्रस्तरोदयम् ।। २२० । सार्धपश्चांशमभ्युच्चं मनं सार्धद्विभागयो । एकाशं यदिकामानं द्विभागं स्याद्गलोदयम् ॥ २३ ॥ पञ्चांशं शिखरोत्तुङ्गं पादद्वयंशं शिरो(खोदनमः। तद्भूतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः ।।.२:४ । आरामोच्चं तु पञ्चांशं भागं कृत्वा विशेषतः । सार्धाशांशमधिष्ठानं धात्वंशं चरणोदयम् ॥ २५ ॥ प्रस्तरोच्चं त्रिभागेकं चरणं साधषड्भवेत् ।। सपादारन्यंशमञ्चं स्यात्तली(लि.)पं साधेषट्ककमः॥ २६ ॥ त्रिभागं प्रस्तरोत्सेधं पादोचं सार्धपञ्चकम् । पादीनान्यंशमञ्चोरचं शिवांशं वेदिकोदरम् ।। २७ ॥ द्विभागं गलमानं तु पञ्चाशं शिखरोद यम् । व्योमाशं तु शिवामानं विमानं सार्वदेशिकमा २८ ॥ होमादिस्तूपिपर्यन्तं वेदाधे परिकल्पयेत् । भानुकूट तथा कोष्ठं भानुद्विगणपञ्जरम् ।। २९ ॥ शिखरे तु चतुर्दिक्षु भद्रनासीचतुष्टयम् । पादं प्रत्यल्पनासाढयं शिखरेऽष्टालानासिकम ।। ३० ॥ कूटकोष्ठादिसर्वाङ्ग नागरायुचितं कुरु । एकाकारतलस्तम्भं सुभद्रमिति विद्यते ।। ३१ ॥ नदेव शिखरेऽष्टाल्पनासिकारहितं भवेत् । तद्धावमिति विख्यातं सर्ववेद (देव)भियावहम् ॥ ३२ ॥