________________
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते
20
[ पा० १, सू० ५५. ]
पूर्वान् विधीन् बाधन्ते नोत्तरान्' इत्येवं शः कं बाधिष्यते, कर्मोपपदं न वाचिष्यते" इति ।
अयमाशयः – 'ण्वुल् [णक ] तृची 'अच्' च सार्वधातुकाः सर्वेभ्यो धातुभ्यो विहितत्वात् असरूपतया च 5 तेषु बाध्यबाधकभावो वैकल्पिकः अयं च कस्तृतीयकक्ष्यायां प्राप्तो विशेषविहितत्वादपवादः, कर्मोपपदोऽपि सार्वधातुकतया सर्वधातुभ्यो विहिततयोत्सर्ग एव । एवं चोत्सर्गापवादयोविप्रतिषेधस्यायुक्तत्वम्, समबलयोहि विप्रतिषेधः [ स्पर्धः ] भवति, ततश्च काष्ठभिद इत्येव 10 भविष्यति न तु काष्ठभेद इति । एवं च का गतिरत्रेति चिन्तायां मध्येऽपवादन्यायेन समाधानं कार्य म् । तथाहि-एतत्सूत्रविहितः कः ण्वुल्तृजचाम् अणश्च मध्ये पठितः, स पूर्वान् ण्वुल्तृजचो बाधिष्यते कर्मोपपदमणं न बाधिध्यत इति स एव भविष्यतीति काष्टभेद इत्येव रूपमुचित15 मिति भाष्यसिद्धान्तः । एवं च 'काष्ठभेद इति परत्वा
दण्' इति ग्रन्थः सामान्यतया 'स्पर्धे' 'मध्येऽपवाद' इत्युभयशास्त्रपरतया योजनीयः, मध्येऽपवादन्यायेनाप्यणः प्रवृत्तौ परत्वस्यैव मूलत्वादिति ध्येयम् ।। ५. १. ५४. ।।
हे ग्रहः । ५. १. ५५. ।।
त० प्र०—-गेहेऽभिधेये ग्रहेः को भवति । गृहम गृहाणि; गृहाः, पुंसि बहुवचनान्त एव । उपचाराद् वारा. गृहाः ॥५५॥
श० म० न्यासानुसन्धानम्-- गेहे० । गेहशब्दस्योपपदत्वशङ्कामपाकर्तुमाह — गेहेऽभिधेये इति कर्तरि 25 विहितोऽयं प्रत्ययः कर्तृत्वेन गेहे वाच्यं एव भवति न त्वन्यस्मिन् वाच्य इत्यर्थः । “ग्रहीश् उपादाने" गृह्णाति पुरुषोपार्जितं द्रव्यमित्यनेन के किश्वाच्च वृति-गृहम् पुंक्लीवलिङ्गोऽयम्, बहुवचने गृहारिण । पुंस्त्वे तु बहुवचनान्त एव गेहवाचीत्याह-गृहाः, पुंसि बहुवच30 नान्त एवेति तथा चाहामरः - "गृहाः पुंसि भूम्न्येव" इति । अयं च गृहशब्दस्य वाच्योऽर्थः लक्ष्यार्थोऽपि तस्य निरूढ इत्याह-- उपचाराद् द्वारा गृहा इति-उप चारो लक्षणा, तन्मूलानि चालङ्कारिकैरित्यमुक्तानि - "तात्स्थ्यात् तथैव ताद्धर्म्यात् तत्सामीप्यात् तथैव च ।
तत्साहचर्यात् तादर्थ्याज्ज्ञेया वै लक्षणा बुधैः ॥" 35
इति ।
तत्र दारेषु गृहशब्दस्य तात्स्थ्यात् प्रयोगः, तिष्ठन्ति हि गृहेषु ताः, यथा 'मञ्चाः क्रोशन्ति' इत्यादी मन्चशब्दस्य मवस्थेषु बालकेषु प्रयोगः परं तु मश्वशब्दस्य बालकेषु तत्स्थेष्वन्येषु च प्रयोगः स्वारसिकः, गृहशब्दस्य च दारेषु 40 निरूढः प्रयोगः, स च निरूढलक्षणामूलकः । लक्षणा हि प्रथमतो द्विविधा — प्रयोजनवती निरूढा च, प्रयोजनेन यत्र लक्षणाऽऽश्रीयते सा प्रयोजनवती, यथा- गङ्गायां घोष इति, अत्र गङ्गातीरे घोष इति कथनेन येषां शैत्यपावनत्वादीनामतिशयो न प्रतीयते तेषामतिशयस्य प्रतिपादनाय 45 लक्षणाऽऽश्रीयत इति प्रयोजनवती सा । अनादितात्पयवती निरूढा लक्षणा, यथा कुशलशब्दस्य कुशग्राहिरूपार्थं व्युत्पन्नस्य चतुरे प्रयोगः । एवं च दारेष्वपि गृहशब्दस्य निरूढ एवं प्रयोगः । अत एवामरकोशेऽपि नानार्थवर्गे “दारेष्वपि गृहाः" इत्युक्तम् । स्मृत्याशे च 50 नपुंसकलिङ्गोऽपि गृहशब्दः प्रयुक्तः कलत्रे इति शब्दकल्पद्रुमः, तथाहि स्मृतिः -
४३
•
णिचि
[
"न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
तया सहितः सर्वान् पुरुषार्थान् समश्नुते ||" इति । परं त्विदं स्त्रिया गृहप्रधानाङ्गत्वबोधकं वचनं न तु 55 तस्य क्लीबस्य कलत्रे प्रयोगनियामकम् ।
अत्र केचित् "ग्लहोड़ ग्रहणे " इत्यस्य स्थाने "गृही ग्रहणे " इति पठित्वा नाम्युपान्त्यलक्षणकप्रत्ययेन गृहशब्दं व्युत्पाद्य, तथा "गृहणि ग्रहणे " इति अदन्तात् चुरादेणिचि अचि च गृहशब्दं व्युत्पाद्य च सूत्रमिदं 60 त्यक्तुं शक्यमित्याहुः, तच्च नागेशेन शब्देन्दुशेखरे खण्डितम्, तथाहि--यद तु गृह ग्रहणे इति चुरादेरदन्तात् पचाद्यचि स्वादेर्वा गृहुधातोरिगुपधलक्षणे नाम्युपान्त्यलक्षणे ] के गृहं सिद्ध, रूढिस्वीकाराश्च नातिप्रसङ्गस्तत्स्थेषु दारेष्विवेतीदं सूत्रं शक्यमकमिति 65 तन्न ती धातू छान्दसाविति सूत्राशयात्, धातुषु पाठार्थादावागमभ्रंशस्य क्षीरस्वामिनो क्तत्वेन, सूत्रपाठे च तद्भ्रंशाभावेनैवमेवीचित्यात् । उच्छङ्खलास्तु तयोश्रत्वोरप्रामाणिकः पाठः । वेदे तत्साध्यप्रयोगो यदि भवेत् स वर्णव्यत्ययादिना ग्रहेरेव साध्य इत्याहु: 1 70
"